________________ कीर्ति हन्ति खलश्च बालमिलनं माहात्म्यमङ्गं महान्, व्याधिर्दुस्तनयः कुलं च विमलं चिन्ता मनश्चारुताम् / स्त्रीशीलं स्मरलम्पटश्च क्रपट: पुण्यं गुणान्नीचता, मत्यैर्वित्तमदत्तमात्तमिह यैः सर्वं हतं तैरिदम् // 142 // भुक्त्वोच्चैविषमं विषं विषभृता तैः कामितं जीवितं तैरब्धेरतुलं निपीय सलिलं तृष्णाक्षयोऽभीप्सितः / . क्षिप्त्वा कुन्तमुखं च तैर्नयनयोः कण्डुक्षतिः काङ्क्षिता, यैरादाय परधिमात्मसदने पूर्तिः श्रियामीहिता // 143 // स्त्रीणां हार इवातिपीनकुचयोः काञ्चीव काञ्चीपदे, गल्ले पत्रलतेव कज्जलमिवालङ्कारकृच्चक्षुषोः / रेणुभूमिविभूषणं चरणयोः पुण्यात्मनां जायते, ऽन्येषां वित्तमदत्तमत्र जहतां पुसां प्रशंसापहम् // 144 // अदत्तादानमाहात्म्य-महो वाचामगोचरम्। . यदर्थमाददानाना-मनर्थोऽभ्येति सद्मनि . . // 145 // दो ये जलधेस्तरन्ति सलिलं पद्भ्यां नभः प्राङ्गणे, ये भ्राम्यन्ति च वारबाणरहिताः कुर्वन्ति ये चाहवम् / ये दुष्टामटवीमटन्ति पटवस्ते सन्ति संख्यातिगा, स्ते केचिच्चलचक्षुपां परिचयैश्चित्तं यदीयं शुचि // 146 // खद्योतैरिव भानुमांश्च भषणैः कुम्भीव जम्भद्विषः, सारङ्गरिव केसरी मखभुजां भर्तेव दैत्यव्रजैः / सौपर्णेय इवोरगैश्च मरुतां स्तोमैरवस्वर्गिरिन स्त्रीभिर्बिभिदे यदीयहृदयं शूराय तस्मै नमः // 147 // गुह्यं दुर्जनचेतसीव सलिलं मूर्जीव धात्रीभृतो, युद्धोया॑मिव कातरः कलिमल: स्वान्ते सुसाधोरिव / 115