________________ धर्माणां निधिरास्पदं च यशसां संभोगभूमिः श्रियामस्थानं महसां च भूरविपदां यानं भवाम्भोनिधौ / स्कन्धः सन्मतिवीरुधां प्रियसखी स्वर्गापवर्गश्रियां, धन्यानां दयिता दयास्तुदयिता क्लेशैरशेषैरलम् // 135 // कीर्ती कज्जलकूर्चकं हलमुखं विश्वासविश्वातले, नानानर्थकदर्थनावनघनं कौलीनकेलिगृहम् / . प्रेमप्रौढपयोदपूरपवनं सन्मानमुस्ताङ्कुरे, कोलं कोलसदाशयोऽद्भुतमतिर्भाषां मृषा भाषते // 136 // सिन्दुरः करिमूर्ध्नि मन्दिरमणिर्गेहे च देहेऽसुमां, स्तारुण्यं चलचक्षुषि द्युतिपतिङ्गेम्नि द्विजेशो निशि प्रासादे प्रतिमालिके च तिलकं भूषा यथा जायते, कीर्तेः केलिगृहं तथा तनुमतां वक्त्रे वचः सूनृतम् // 137 // हानिमेति ददतां धनमुच्चैः, शीलतो भवति भोगवियोगः / जायते च तपसा तनुकायँ, हीयते किमपि नानघवाक्यैः // 138 // अग्नि: शाम्यति मुञ्चति प्रभुरपामौद्धत्यमोघोरुजां, यात्यस्तं विकटा घटा करटिनामाटीकते नान्तिकम्। शैथिल्यं समुपैति सिन्धुररिपुः सर्पोऽपि नोत्सर्पति, द्राग् दूरादुपयाति दस्युरणभीः सत्यं वचो जल्पताम् // 139 // तस्माद्वैरमुपैति दूरमुरगश्रेणिः सुपर्णादिव, क्लेशो नश्यति भास्करादिव तमस्तस्मादकस्माद्भवः / तस्माद्भीस्तुहिनादिवाम्बुरुहिणी संजायते नश्वरा, सत्योद्गच्छति गीर्यदीयवदनाद् गङ्गेव गौरीगुरोः // 140 // अप्रेमपङ्करुहिणीपतिपूर्वशैलं, धर्मार्थकामकमलाकरशर्वरीशम् / स्वर्गापवर्गपुरमार्गनिरोधयोधं, स्तेयं निराकुरुत कीर्तिलताकुठारम्१४१ 114