________________ // 129 // || 130 // रागद्वेषविनिर्जयाम्बुजवने यः पद्मिनीनां पतिः, कृत्याकृत्यविवेककाननपयोवाहप्रवाहश्च यः / यः सद्बोधविरोधभूधरशिरः शम्बप्रहारोपमः, साम्योल्लाससमयं तमिन्द्रियजयं कृत्वा भवानन्दवान् विद्वांसो बहुशो विचारवचनैश्चेतश्चमत्कारिणः, शूराः सन्ति सहस्रशश्च समरव्यापारबद्धादराः / दातारोऽपि पदे पदे घनधनैः कल्पद्रुकल्पा: कलौ, ते केऽपीन्द्रियतस्करैरपहृतं येषां न पुण्यं धनम् / शकस्यैव सुरद्विपो मधुरिपोरेवाण्डजानां पतिः, श्रीदस्यैव च पुष्पकं पशुपतेरेवोक्षचूडामणिः / स्कन्दस्यैव भुजङ्गभुग् गणपतेरेवोन्दुरो वाहनं, धन्यस्यैव शिवाध्वनि प्रविदिता यानं कृपाकोविदैः गाम्भीर्य जलधेर्धनं धनपतेरैश्वर्यमेकेक्षणात्, सौन्दर्यं स्मरतः श्रियं जलशयादायुश्च दीर्घ ध्रुवात् / सौभाग्यं शुभमश्विनीसुतयुगाच्छक्तिं च सत्याः सुताल्लात्वा तं विदधे विधिर्विधिमनाश्चक्रे कृपा योऽङ्गिषु नानामौक्तिकहेमविद्रुममणिद्युम्नाह्वयं गोमयं, दुग्धं दुग्धपयोधिहारिलहरीशुभ्रं यश:संचयम् / विश्वं विश्वजनेहनीयमहसं स्वर्गापवर्गोदयं, या यच्छत्यनिशं दयामरगवी सा रक्ष्यतामक्षयम् अस्तानेरुदयं रवेः स लवणान्माधुर्यमास्यादहे:, पीयूषं च कुहोरनुष्णकिरणं हानि कुपथ्याद्रुजाम् / पावित्र्यं श्वपचाद्दिनं च रजनेर्दीक्षां श्रियां संग्रहात्, कान्तारानगरं च काङ्क्षति वधाद्यो धर्ममिच्छत्यधीः .. 113 // 132 // // 133 // // 134 // 113