________________ नाप्रय, .. . तं हित्वा पतिमीहते यदितरं या कामिनी कामिनं, तन्नूनं कथमात्मसाद्भवति सा स्वच्छन्दसंचारिणी // 122 // पूर्णोऽप्यन्यपराभवैकतमसा यत्सङ्गतो ग्रस्यते, प्रादुर्भूतकलङ्कपङ्ककलितः सुश्लोकशीतद्युतिः / नीचाचारविधौ महानिव भवेदापातमात्रप्रिये, कोऽस्मिन् स्वैरविहारकारिणि सुधीः प्रीतः परस्त्रीजने // 123 घोषेषु स्थितिमीहते स विमतिर्मुक्त्वामराणां. पुरी त्यक्त्वा मन्दरमेदिनीमवकरानुत्खातुमुत्कश्च सः / पातुं वाञ्छति मुक्तनिर्मलजलः स ग्राममार्गोदकम्, त्यक्त्वात्मप्रमदाः परप्रियतमा यः सेवितुं काङ्क्षति // 124 // निजाङ्गनासङ्गमनङ्गरङ्गादन्येषु वाञ्छत्सु यथात्मकोपः, तथा परेषामिति मन्यमानास्त्यजन्ति सन्तः परकीयपत्नीः // 125 // सारङ्गान् भ्रमरानिभांश्च शलभान् मीनांश्च मृत्युंगतान्, कर्णघ्राणशरीरनेत्ररसनाकामैः प्रकामोत्सुकः। दृष्ट्वा शिष्टपथप्रवृत्तिविपिनश्रेणीसमुत्पाटने, साटोपद्विपमिद्रिन्यव्रजमिमं धीमान् विधत्ते वशम् . // 126 // दम्भाम्भोरुहिणीविकाशनविधौ योऽम्भोजिनीवल्लभो, यो लाम्पट्यकलाकलापजलधौ पीयूषपादोपमः / यः स्पर्द्धावसुधारुहालिजलदो यश्चोत्पथप्रस्थितौ, पारीणश्च तमुद्धरं विषयिणां वातं जयन् भद्रभाक् // 127 // स प्राज्यैर्व्वलनैविना रसवतीपाकं चिकीर्षुः कुधीस्त्यक्त्वा पोतमगाधवाधितरणं दो विधित्सुश्च सः / बीजानां वपनैविनेच्छति स च क्षेत्रेषु धान्योद्गम,.. योऽक्षाणां विजयैर्विना स्पृहयति ध्यानं विधातुं शुभम् // 128 // 112