________________ प्रहारो यष्ट्याद्यैस्तदनु शिरसो मुण्डनमथो, खरारोपाटोपस्तदनु च जगद्गालिसहनम् / ततः शूलारोहो भवति च ततो दुर्गतिगतिविचार्यंतच्चौर्याचरणचरितं मुञ्चति न कः // 116 // नृणां प्राणा बाह्या यदनघयशो यद्यदमलः, कुलाचारो यच्चानुपममहिमा यच्च गरिमा / कलानां यत्केलियेदसमतमा रूपरचना, धनं तद्यैरात्तं निखिलमपि तैः संहृतमिदम् // 117 // वैरं विश्वजनैरकारि कलह: कीर्त्या च लोकद्वयी, कृत्यैर्मत्सर उत्सवैश्च विरह: सौख्यैरसूयोदयः / प्राणैरप्रियता प्रियैरलपनं द्रोहश्च धर्मेच्छया, विश्रम्भेन हठश्च तैरतिश? यैश्चौरिका निर्ममे / // 118 // तत्कीर्तिः कुमुदेन्दुकुन्दकलिकाकर्पूरपूरोपमा, तत्स्फुर्तिः परमप्रमोदविलसत्पावित्र्यपाथःप्रपा / तन्मूर्तिः स्मरपार्थिवस्मयशशिस्वर्भानुवद् भ्राजते, चौर्यं यैर्मुमुचे लसद्गुणगणारामैकदावानलम् // 119 // श्रीकीर्तिविस्फुर्तिलताम्बुवाहं, दौर्भाग्यदैन्याम्बुजसप्तवाहम् / विश्रम्भधाराधरगन्धवाहं, विमुञ्च चौर्यं दुरितप्रवाहम् // 120 // नो हास्यं सुरतप्रपञ्चचतुरं नालिङ्गनं निर्भरं, नैवोरोजसरोजयुग्मललुठत् पाणि प्रमीलामलम् / नो बिम्बाधरचुम्बनं स्थिरतया कुर्यात् पुमान् प्रेयसीमन्येषां रमयनिकामचकितः कामीति काम्या न ताः // 121 // पौराणां पुरतः प्रपञ्च्य महिमां दत्तः पितृभ्यां स्वयं, यो दत्वा स्वकरं करेण च वृतः सप्तार्चिषां साक्षिकम् / 111