________________ // 111 // धनं प्रीतिर्यासां धनमपि च रूपं निरुपम, ' धनं चार्वाचारो धनमपि च बुद्धिनिरवधिः। धनं देवो यासां धनमपि च यासां गुरुरिह, विधत्ते वेश्यासु प्रणयमिह कस्तासु मतिमान् // 109 // मास्म स्मर स्मरनरेशवरुथिनीनां, तासां पणाम्बुजदृशांहि दृशां विलासायद्रूपदीपकलिकासु मनोहरासु, स्नेहक्षयासु बहवः शलभीभवन्ति / तेभ्यः श्वापदपेटकैः सहसुखैः सर्वैरपि त्रस्यते, तैः सार्धं भषणा भ्रमन्ति विपदां पूराद्रवप्रोन्मुखाः / विध्यन्ते विविधायुधैश्च पशवः पुण्यैः समं तैः समे, ये मूढा अटवीमटन्ति विकट प्रारब्धपापर्द्धयः संपर्क नरकैः कलिं च कुशलैर्वैरं सतां संगमैः, प्रीति भीतिभरैरघैः परिचयं प्रेमापदां प्रापणैः / उद्वेगं विनयैर्नयैरमिलनं चेदीहसे हे सखे, सत्त्ववातभयंकरं कुरु तदा साटोपमाच्छोटनम् .. // 112 // आकन्दा वनवासिनामसुमतां गीतानि तेषामसृक्, कुल्याः कुङ्कुमहस्तका अनुचराः कुराः शुनां राशयः / जन्तुव्रातपलान्यहो रसवती यस्मिन् मृगव्यामहे, श्वभ्रस्त्रो परिरभ्यते मृगयुभि:कस्तत्र गच्छेत् सुधीः . // 113 // ये नीरं विपिबन्ति निर्झरभवं कुओ च ये शेरते, ये चाश्नन्ति तृणानि काननभुवि भ्राम्यन्ति येऽहनिशम् / ये च स्वैरविहारसारसुखिता निर्मन्तवो जन्तवो, हत्वा तान् मृगयासु कः समभवच्छ्वभ्रेषु नाभ्यागतः // 114 // भावान् घ्नतां यत्र नभोऽम्बुभूगान्, भावत्रयार्थः समुपैति हानिम् / आखेटकं पेटकमापदां कः, कौतूहलेनापि करोति धीमान् // 115 // 110