________________ शास्त्रैः शास्त्रवतां बलैर्बलभृतां श्रीभिः श्रियाशालिनां शीलैः शीलजुषां गुणै गुणजुषां धीभिश्च धीमालिनाम् / सर्वेषां गुरुरस्त्यमी मम पुनर्मत्वेति येषां व्यधाद्विश्वानन्दकरी जगद्गुरुरिति ख्याति हुमायुसुतः // 179 // तेषां चन्दनचन्द्रमौक्तिककुमुत्कैलासशैलोल्लसत्, कीर्तिस्फीतमरीचिमण्डितदिशां प्रौढप्रतिष्ठास्पृशाम् / सूरीणां मुनिहीरहीरविजयाह्वानां शिवश्रीमतां, राज्ये राजिनि विज्ञहेमविजयः सूक्तावलि निर्ममे // 180 // कमलविजयसंज्ञप्राज्ञपारीन्द्रपाद, द्वयकमलविलासे भृङ्गतां संगतेन। रसिकजनविनोदा सूत्रिता सूक्तिमाला, श्रियमयतु जनानां कण्ठपीठे लुठन्ती सत्सूत्रमौक्तिकमहोदधितुल्यगुम्फा प्राज्ञेन्दुहेमविजयेन विनिर्मितो यः। आदाय सूक्तजलमम्बुधरा इवास्माद्व्याख्याजुषः क्षितितलं सुखयन्तु सन्तः