________________ कचालोचः कोऽयं प्रचुरतपसां किञ्च तपनं, न चेच्चेतःशुद्धिः सुकृतसफलीकारकरणम् / // 87 // स्वैरं भ्रमन् जगति चित्तनिशाचरोऽयं, यैर्यन्त्रितः सुकृतकृत्यमनोज्ञमन्त्रैः। तेषामशेषसुखपोषिणि सिद्धिसौधे, वासः सदा समजनिष्ट समाधिभाजाम् विना मनःशुद्धिमशेषधर्म- कर्माणि कुर्वन्नपि नैति सिद्धिम् / हाभ्यां विना किं मुकुरं करेण, वहन्नपीक्षेत जनः स्वरूपम् // 89 // दूती मुक्तिमृगीदृशो यदि मनःशुद्धि विधातुं रतिस्तत्स्वर्णं रमणीजने च हृदयं रक्ष्यं प्रलुभ्यत्सखे / एतल्लोभभराभिभूतहृदये न स्वार्थसार्थप्रथा, प्रादुर्भावमुपैति शंवररुहां रोह: शिलायामिव // 90 // भक्ति भनक्ति विनयं विनिहन्ति तृष्णां, पुष्णाति तर्जयति वर्यमजयवीर्यम् पूजां पराभवति नीतिमपाकरोति, द्यूतं विदूरयत तद्व्यसनाध्वसूतम्९१ वन्ध्यां धाम्नि वधूं विधाय स कुधीधुर्यः सुतानीहते, झम्पापातमुपेत्य पर्वतपतेः प्राणान् स च प्रेप्स्यति / सच्छिद्रामधिरुह्य नावमुदधेः कूलं च काङ्क्षत्यसौ, कृत्वा कैतवकौतुकं प्रकुरुते वित्तस्पृहां यो जड: // 92 // भ्रातॄन् भूतभराभिभूत इव यल्लुब्धो दृशा नेक्षते, भक्तोक्ति शृणुते न च ज्वरितवद्यद्दत्तचित्तः पुमान् / लज्जामुज्झति मद्यमूर्छित इवासक्तश्च यत्र द्रुतं, द्यूतं वित्तविनाशनं त्यज सखे तन्मूर्खमैत्रीमिव // 93 // यत्रोपदां वृन्दमुपैति वृद्धि कन्दस्तरूणामिव वारिभूमौ / त्यजन्ति तंत्किं न मनीषिमुख्या द्यूतं दुराकूतमनूतमार्यैः // 94 // स्थानं शून्यगृहं विटाः सहचराः स्निग्धश्च वेश्याजनः, पार्षद्याः परमोषिणः परिजनाः कादम्बरिपायिनः / 107