________________ प.मुण्यत व्यापारश्च परप्रियापरिचयः ख्यातिश्च वित्तव्ययो, येषां द्यूतकृतां कथामपि कथं कुर्यास्समन्तैःसुधीः // 95 // निःकर्णेष्विव गीतिरीतिरफला सद्ध्यानधौरेयता, कारुण्यस्य कथा वृथा मृगदशां दृक्केलिरन्धेष्विव / निर्जीवेष्विव वस्त्रवेषरचना वैदग्ध्यबुद्धिर्मुधा, मांसास्वादिषु देहिषु प्रणयिना व्यर्था लतेवाग्निषु // 96 // हित्वा हारमुदारमौक्तिकमयं तैर्धीयतेऽहिर्गले, त्यक्त्वा क्षीरमनुष्णधामधवलं मूत्रं च तैः पीयते / मुक्त्वा चन्दनमिन्दुकुन्दविशदं तैर्भूतिरभ्यङ्ग्यते, संत्यज्यापरभोज्यमद्भुततरं यैरामिषं भुज्यते // 97 // स्वं ज्वालाजटिलेऽनले स बहले क्षिप्त्वेहते शीततामुत्सङ्गे भुजगं निधाय सविषं स प्राणितं काङ्क्षति / कीर्ति काम्यति चाकृशां कृपणतामासूत्र्य स त्रस्तधीर्य:कर्तुं करुणामभीप्सयति जडो जग्ध्वा पलं प्राणिनाम् // 98 // चैतन्यं विषभक्षणादिव मधोः पानादिव प्राज्ञता, विद्यालस्यसमागमादिव गुणग्रामोऽभिमानादिव / शीलं स्त्रीजनसंस्तवादिव मन:क्लेशादिव ध्यानधीदेवार्चाशुचितादि पुण्यमखिलं मांसाशनानश्यति // 99 // पारदारिकनरः परपत्नी, तस्करश्च परकीयविभूतिम्। भोक्तुमिच्छति यथेह तथासा-वामिषोपचितमामिषलुब्धः // 100 // स्वामित्वं समुपैति किंकरनरः प्रेष्यत्वमेति प्रभुः शत्रुः सोदरतामुपैति भजते प्रत्यर्थितां सोदरः। . जायात्वं जननी प्रयाति जननीभावं च जायाजनो, . धर्मध्वंसधुराधुरीणमधुनःपानाभिभूतात्मनाम् // 101 // 108