________________ यत्पङ्कोऽपि नरेन्द्रभालफलके कस्तूरिकाभावभाक्, काचोऽप्याभरणेषु भूपसुदृशां हीरोपमां याति यत् / यत्काकोऽपि रसालशालशिखरे ताम्राक्षतामश्नुते / तत्सङ्गान्महतां भवन्त्यपि गुणैींना गुणानां गृहम् -- // 81 // पापापापहिताहितप्रियतमाप्रेयोऽभिधेयेतरध्येयाध्येयशुभाशुभप्रकटनच्छेके विवेके रतिः / यूनां चेतसि कान्दिशिकहरिणीनेत्रेव चेद्वः प्रिया, तत्सत्संगमभङ्गरङ्गरसिकाः सेवध्वमात्मप्रियाः . // 82 // कीर्ति कन्दलयत्यघं दलयति प्रह्लादमुल्लासयत्यायासं निरुणद्धि बुद्धिविभवं सूते निशेते रिपून् / श्रेयः संचिनुते च बन्धुरधियं धत्ते पिधत्ते भयं, किं किं कल्पलतेव नैव तनुते सद्यः सतां संगतिः // 83 // सङ्गात्सतां प्रथितबुद्धिसमृद्धिसिद्धे- रुच्चैः पदं समुपयान्त्यपमाननीयाः यत्सूत्रतन्तुमपि सौरभसारपुष्प-सङ्गाद्वहन्ति मुकुटेषु नराधिनाथा:८४. दत्ते चेद्रसनाः पतिः फणभृतामायुश्च पाथोजभूः, स्थैर्य निर्जरभूधरः सुरगुरुर्गीः कौशलं चातुलम् / . सर्वज्ञत्वमुमापतिश्च रजनीराजः कलाः पेशलाः, स्तोतुं तांस्तदयं क्षमेत महतां ये सङ्गतः स्युर्गुणाःचेद्वाचो निर्विकारा यदि शमनिभृते नेत्रपत्रे पवित्रे, गात्रे सद्ध्यानमुद्रा यदि यदि च गति मन्दमन्दप्रचारा / क्रोधादीनां निरोधो यदि यदि च वनेऽवस्थितिः प्रीतिपूर्णा क्लेशावेशप्रवेशच्छिदिह हृदि तदा स्वैरमभ्येति शुद्धिः // 86 // असौ भस्माभ्यङ्गः किमु किमुत भूमौ विलुठनं, जटाटोपः कोऽयं किमु वपुरिदं निर्विवसनम् / 106