________________ // 75 // // 76 // // 77 // पूज्योपास्तिरनादरोऽधमनरे नो वञ्चना धर्मिणाम्, सत्या वाक् पुरतःप्रभोरनुचितत्यागोऽनुरागो निजैः / सङ्गः साधुषु नित्यकृत्यकरणं स्नेहःसहौजस्विभिर्दीनानाथजनेषु चोपकरणं न्याय्योऽयमध्वा सताम् चेत्पापापचर्य चिकीर्षसि रिपोर्मूर्ध्नि क्रमौ धित्ससि, क्लेशध्वंसमभीप्ससि प्रवसनं सर्वागसां दित्ससे / दुष्कीर्ति प्रजिहीर्षसि प्रतिपदं प्रेत्यश्रियं लिप्ससे, सर्वत्र प्रविधेहि तत्प्रियसखे पैशुन्यशून्यं मनः नाग्नौ नीररुहं न सर्पलपने पीयूषपुरः प्रभा, भर्तु भ्युदयश्च पश्चिमगिरौ वल्ली न च व्योमनि / न स्थैर्य पवने मरौ न मरुतामूर्वीरुहः स्याद्यथा, दौर्जन्ये यशसां तथा नहि भर: सोमत्विषां सोदरः . तत्संपत्तिमनुद्यमं प्रकटयन् कीर्ति च कुर्वन् कलिं, . प्राणान् प्राणभृतां हरंश्च सुकृतं नृत्यं वितन्वंस्तृषाम् / आरोग्यं च गिलन्नपथ्यमशनं विद्यां च निद्रां दधत्, काङ्क्षत्येष यदीहते सुभगतां पैशून्यमासूत्रयन् धर्म धुनोति विधुनोति धियां समृद्धि, श्लाघां सिनोति च दुनोति दयाविलासम् / चिन्तां चिनोति च तनोति तनूप्रतापं, क्रोधं धिनोति च नृणां पिशुनत्वमेतत् / सौभाग्यादिव सुन्दरी सुविनयाद्विद्येव वीथिश्रियामुद्योगादिवः साहसादिव महामन्त्रादिसिद्धिः पुनः / पीयूषादिव नीरुजत्वमचिरात् पूजा च पुण्यादिव, स्फुर्जत्कीर्तिभरो नरं पिशुनतात्यागादुपागच्छति // 78 // // 79 // // 80 // . . . 105