________________ // 70 // आरामः पृथिवीरुहां कुमुदिनीप्रेयान् कलानां यथा, कासारः सरसीरुहां च विनयः स्थानं गुणानां तथा // 67 // न स्वर्णाभरणैविभूषितवपुः सृग्भिर्न च भ्राजितो, नो मुक्ताफलहारहारिहृदयो नो दिव्यवासोवृतः / नो रूपोपचितो न सिन्धुरवरस्कन्धाधिरुढश्च तत्, सौभाग्यं समुपैति यद्विनयिताभाषाभिराम:पुमान् // 68 // अन्यैर्गुणैरलमलंकरणैर्नराणां, यद्यस्ति चेद्वियनमण्डनमेकमङ्गे / आयान्ति नायकमिवध्वजिनीजना यत्, सर्वे गुणाः स्वयमिदं हृदये वहन्तम् प्रेमपात्रं प्रजायन्ते, विनीताः पशवोऽपि ही। तस्माद्विनय एवायं स्वीकार्यः कार्यकोविदैः प्राणा यान्तु सुरेन्द्रचापरुचयः संपत्तयश्चाचिरा, संचाराः पितृपुत्रमित्ररमणीमुख्या:समा बुबुदैः / तारुण्यादिवपुर्गुणा गिरिनदीवेगैकपारिप्लवाः, कीर्तेः केलिगृहं तु नीतिवनितासङ्गश्चिरं तिष्ठतु // 71 // यथोपायैविना निम्ना, वनीमेति नदीवहः / स्वयं नयवतोऽभ्यर्णं, तथाभ्येति श्रियां भरः / / 72 // संबन्धी प्रणयैः सर: कुवलयैः सेना च रङ्गद्हयैः, स्त्रीबाहुवलयैः पुरी च निलयै नृत्यं च तातालयैः गन्धर्वश्चरयैः सभा सहृदयैरात्तव्रतो वाङ्मयैः, शिष्यौघो विनयैः कुलं च तनयैराभाति भूपो नयैः नीतिः कीर्तिवधूविलाससदनं नीतिः प्रसिद्धेधुरा, नीति: पुण्यधराधिपप्रियतमा नीतिः श्रियां संगमः नीति: सद्गतिमार्गदीपकलिका नीति: सखी श्रेयसां, नीतिः प्रीतिपरम्पराप्रसविनी नीतिः प्रतीतेः पदम् // 73 // // 74 // 104