________________ सौभाग्यं तमुपैति नाथमवनेः सेनेव तं काङ्क्षति स्वर्ब्रह्माब्धिसुता क्शेव तरुणं योऽर्चा विधत्तेऽर्हताम् // 61 // स श्लाध्यः कृतिनां ततिः सुकृतिनां तं स्तौति तेनात्मनो वंशोऽशोभि नमन्ति योजितकरास्तस्मै व्रजा भूभुजाम् / तस्मान्न प्रथितः परोऽस्ति भुवने जागर्ति चित्तातिहत्, कीर्तिस्तस्य वसन्ति भोगनिवहास्तस्मिञ्जिनं योऽर्चति // 62 // तस्माद्दूरमुपैति दुःखमखिलं सिंहादिवेभव्रजो विनौषश्च बिभेति सर्पनिकर: कंसारियानादिव। बिम्बात्पङ्कजिनीपतेरिव निशा नश्यत्यनर्हा गतिः, पूज्यन्ते जिनमूर्तयः प्रतिदिनं यद्धाम्नि सस्फुर्तयः // 63 // पवेर्धाराकारा व्यसनशिखरिण्युत्सववने, वसन्तः संकेतस्त्रिदिवशिवसंपत्तियुवतेः / भवाम्भोधौ पोतः सुकृतकमलानां च सरसी, जिनेन्द्राणामर्चा प्रथितमहिमानां च सदनम् // 64 // न भ्रूः साटोपकोपा न च करयुगलं चापचक्रादिचिह्न, कान्ता कान्तश्च नाङ्को न च मुखकमलं सप्रकोपप्रसादम् / यानासीना न मूर्तिर्न च नयनयुगं कामकामाभिरामं, हास्यात्फुल्लौ न गल्लौ सभयभवभिदो यस्य देवःस सेव्यः // 65 // केनाकारि प्रशस्या शशिनि धवलिमा बहिणां च प्रबहे, बर्हे चित्र विचित्रं जलरुहपटले सारसौरभ्यसंपत् / दुग्धे स्लैग्ध्यं सितायामसममधुरिमा पद्मपाणौ प्रभाते, नैर्मल्यं सानुकूल्यं पयसि च विनयः पुंसि सद्वंशजाते // 66 // धिष्ण्यानां गगनो पयोनिधिरपामम्भोजबन्धुस्त्विषां, देवानां त्रिदिवं नृणां वसुमती विन्ध्याचलः कुम्भिनाम् / . 103 103