________________ यत्पित्रोः प्रविधीयते प्रतिदिनं भक्तिःशुभास्मिन् युगे // 54 // यत्प्रसादवशतः करिलीलां पूतरप्रतिमितोऽप्युपयाति / पादयोःप्रविदधीत न पित्रोः किंतयोः सतनयः समुपास्तिम् // 55 // किं पाथसां मथनवत् कुरुषे सुखेच्छुबन्धो मुधैव विविधं निकरं क्रियाणाम् / वस्तुप्रकाशनपटुः प्रकटप्रभावो, दीप्रप्रदीप्त इव चेद् गुरुराहतो न . // 56 // न ध्वंसं विदधाति यस्तनुमतां ब्रूते न भाषां मृषा, न स्तेयं वितनोति न प्रकुरुते भोगांश्च वक्रभ्रुवाम् / न स्वर्णादिपरिग्रहग्रहिलतां धत्ते च चित्ते क्वचित्, संसेव्यो गुरुरेष दोषविमुखः संसारपारेच्छुभिः // 57 // ये व्यापारपरायणाः प्रणयिनीप्रेमप्रवीणाश्च ये, ये धान्यादिपरिग्रहाग्रहगृहं सर्वाभिलाषाश्च ये। ये मिथ्यावचनप्रपञ्चचतुरा येऽहर्निशं भोजिनस्ते सेव्या न भवोदधौ कुगुरवःसच्छिद्रपोता इव . // 58 // ये विश्वासपदं च ये प्रतिभुवो निर्वाणशर्मार्पणे, ये चाधोगतिदुर्गमार्गगमनद्वारप्रवेशार्गलाः / धर्माधर्महिताहितप्रकटनप्राप्तप्रमोदाश्च ये, ते सेव्या भववारिधौ सुगुरवो निश्छिद्रपोता इव // 59 // चेद्दानशीलतपसां फलमाप्तमीहा, स्वर्गापवर्गपुरयोः पथि घेधियासा। वाञ्छा च चेत्सुकृतदुष्कृतयोविवेके, सेव्यः समाधिनिधिरेष गुरुस्तदायें ज्योतिर्जालमिवाब्जिनीप्रियतमं प्रीतिर्न तं मुञ्चति, श्रेयः श्रीर्भवतीह तत्सहचरी ज्योत्स्ना सुधांशोरिव / 102 / भाजन