________________ जयत्यसौ स्तम्भनपार्श्वनाथः, प्रभावपुरैः परितः सनाथः / स्फुटीचकाराऽभयदेवसूरि-याँ भूमिमध्यस्थितमूर्तिमिद्धम् 3658 जीर्णोद्धारं नूतनं वा जिनानां, ये प्रासादं कारयन्त्यास्तिकौघाः / ते स्युः पूज्या रामनामा यथेह, श्रेष्ठी श्रेयः श्रीनिवासो बभूव 3759 धन्यस्य कस्यापि भवन्ति भाग्यतः, श्रीतीर्थयोगाः सकलेष्टदायिनः / तत्रापि सिद्धाचलभूरियं यया, हत्यादिदोषा अपि दूरतः कृताः 38/60 लक्ष्मीः कृतार्था खलु सैव या जिन-प्रासादपूजाधुपयोगिनी भवेत् / सपादकोटीमणिना विभूषितं, हारं यथा श्रीजगडो व्यधापयत् 39 / 61. यात्रां सृजन्तो विदधत्यमात्रां, भक्ति जिने ते सुखिनो नराः स्युः। शत्रुञ्जयादौ कृतपूर्विणस्तां, मुक्ति ययुः श्रीभरतादयो यत्॥ 40 / 62 / / श्रीतीर्थयात्रामतिमात्रभक्त्या, वितन्वते ये मनुजौघयुक्ताः। .. आभूरिख प्रौढसमृद्धियुक्ता-स्ते पूजनीया जगतां भवन्ति // 41 / 63 // . तृतीयोऽधिकारः निवर्तयत्यन्यजनं प्रमादतः स्वयं च निष्पापपथे प्रवर्तते। गृणाति तत्त्वं हितमिच्छुरङ्गिनां, शिवार्थिनां यः स गुरुर्निगद्यते 42264 ददाति यो वन्दनकानि पादयोः, श्रीमद्गुरूणां विनयेन भावितः / उच्चैः पदं तस्य न दुर्लभं भवे-दर्थेऽत्र कृष्णः क्रियते निदर्शनम्४३।६५ सम्यग्हदयशुद्ध्या श्री-गुरुपादा निषेविताः। तुष्यन्त्यत्रोच्यते योगि-नागार्जुननिदर्शनम् // 4466 // साधर्मिकास्था गुरुभक्तितीर्थो-नती निवृत्तिश्च परिग्रहादेः / . अमी गुणाः पेथडदेवसाधो-र्यथा बभूवुर्न तथा परेषाम् // 4567 // श्रीसूरयः केऽपि कलौ युगेऽभवन्, दीपा इव श्रीजिनशासनौकसि। अत्रोच्यते म्लेच्छपतिप्रबोधकृ-ज्जिनप्रभः सूरिवरो निदर्शनं 46 / 68 GO