________________ आत्मीयतातप्रतिपन्नमर्थं, ये निर्वहन्ते तनयास्त एव / अमात्यमुख्योदयनस्य पुत्रौ, श्रीवाग्भटश्चामभटो यथैव // 26 // 46 // अथाम्रदेवोऽपि पितुर्निजस्य, श्रेयोनिमित्तं पुनरुद्दिधीर्षुः / शकुन्तिचैत्यं भृगुकच्छनाम्नि, पुरे गतो भूरिपरिच्छदेन // 2747 / / येन त्रिषष्टिलक्षाभि-ष्टङ्ककानां व्यधाप्यत / गिरिनारगिरौ पद्या, स श्लाघ्यो भुवनत्रये / / 2748 // मल्लिकार्जुनराजेन्द्र, जित्वा प्रौढपराक्रमैः / रत्नाष्टकेन सुप्रीतं, भूपति यश्चकार च // 27149 // धन्याः पुमांसः स्पृहयालवः शिवं, निर्मापयन्त्यार्हतमन्दिराण्यपि। यथा स मन्त्री विमलोऽर्बुदे गिरौ, युगादिचैत्यं निरमापयत्सुधीः२८।५० प्रासादं श्रीअर्हतां कारयन्तो, धन्याः पुण्यां सम्पदं प्राप्नुवन्ति। दृष्टान्तोऽत्र स्पष्टयते कोविदेन्द्र-मन्त्री तेजःपालनामास्ति केन्द्रः२९।५१ श्रीजीरिकापल्लिपुरीनितम्बिनी, कण्ठस्थले हारतुलां दधाति यः / प्रणम्य तं पार्श्वजिनं प्रकाश्यते, तत्तीर्थसम्बन्धकथा यथाश्रुतम् 30 / 52 निर्मापितं जैनगृहं क्रमेण तीर्थं भवेदत्र यथा प्रसिद्धम् / अद्यापि सुश्रावकपारसेन, प्रवर्तितं श्रीफलवर्द्धितीर्थम् // 31 // 53 // निर्मापितं पासिलसंज्ञकेन, श्रद्धावता श्राद्धवरेण चैत्यम् / आरासणे श्रीगुरुदेवसूरि-प्रतिष्ठितं तीर्थमभूत्क्रमेण // 32 // 54 // प्रोद्दाममाहात्म्यरमाभिरामं, श्रीपार्श्वविश्वाधिपति प्रणम्य / यथाश्रुतं श्रीकलिकुण्डतीर्थो-त्पत्ति भणिष्यामि गुरूपदेशात् 33655 श्रीअन्तरिक्षप्रभुपार्श्वनाथः, श्रेयांसि स प्राणभृतां तनोतु / यदङ्गसम्पर्कि पयो निपीय, श्रीपालराजाऽजनि नष्टकुष्ठः // 3456 // दुर्वारमारिप्रमुखोपसर्गाः देवाधिदेवार्चनतः क्षयन्ति। श्रीशङ्कराख्यक्षितिपस्य यद-न्माणिक्यदेवं यजतो जिनेन्द्रम् 3557 e