________________ . चतुर्थोऽधिकारः प्रातः समुत्थाय विहाय शय्या-मुपासकाः श्रीपरमेष्ठिमन्त्रम् / स्मरन्तु यस्मात्सकलेष्टयोगाः, श्रीदेववत् प्राग् भवतां भवन्ति 47169 कषो भवः प्राणिगणस्य हिंसना-त्तस्याय एभ्यो भवतीति युक्तितः / उक्ताः कषाया भुजगा इवाङ्गिना-मेते कथं स्युः कुशलाय वर्द्धिताः सकारणास्ते गतकारणा वा, विधीयमाना भववृद्धये स्युः / द्विरुक्तिकोद्वेजित एककुम्भकृद्यथावृथानर्थततीवितेनिवान् // 48 / 71 // तेष्वप्यसौ क्रोधदवानलोऽङ्गिनां, प्रज्वालयत्यद्भुतपुण्यकाननम् / आसेवितो यः स्वपरोपतापकृत्, भवेदिहामुत्र च सूरविप्रवत् 49 / 72 मानोऽपि मान्योऽस्तु मनस्विनां कथं, विडम्बयन्नष्टविधाभिरङ्गिनः / यं प्राप्य स क्ष्मापतिपुत्र उज्झिताभिधोऽपि जज्ञे निजजीवितोज्झितः मायापिशाचीविवशा नरा ये, स्वाथैकनिष्ठाः परवञ्चनानि / सृजन्ति तेऽधोगतयो भवन्ति, निदर्शनं त्वत्र स पापबुद्धिः॥ 5174 // यो द्वादशं यावदुपागतो गुण-स्थानं निषेधं स्थिरसंविदः सृजेत् / इहाप्यमुत्रापि विडम्बयेन कं, स लोभवैरी किल सागरं यथा 52 / 75 श्रीधर्मतत्त्वं गुणिनां नृणां पुरः, प्रोक्तं प्रदत्तं च हितावहं द्वयोः / तदुज्झितानां पुनरेतदुक्तयो, वृथाऽऽमकुम्भस्थपयोभरा यथा।। 53 / 76 // एकलज्जागुणेनापि, यद्यश्वो बहुमानितः / . . ये तु भूरिगुणैर्लोक-प्रियास्तेषां किमुच्यते? // 5377 // गुणान् गुणवतां प्रेक्ष्य, मत्सरस्तेषु नोचितः। कर्तुं विवेकिनामत्र, ब्राह्मणानां निदर्शनम् . // 5478 // लोकोत्तरा कापि वच:कला भवे-नृणां प्रभूते सति भाग्यवैभवे / वाग्मी कुरूपोऽपि नृपादिभिर्यतो, मान्यो भवेड्डामरदूतवत्पुमान्५५७९ 1