________________ न्यायो नराणां परमं निधानं,न्यायेन विश्वानि सुखीभवन्ति, न्यायोपपन्नं पुरुषं श्रयन्ति। श्रियः श्रवन्त्यः सरितामिवेशम् 5680 श्रीरामनाम स्मरति प्रतिप्रगे, जनः समग्रो न तु रावणाऽभिधाम् / पूर्वो ददौ कि जगृहे च किं परः सन्न्याय एवात्र बिभर्ति हेतुताम् 81 सदाऽपि धर्मः फलदो नृणां मतो, विशेषतः पर्वदिनेषु निर्मितः / प्रावृट्पयः सर्वमपीप्सितप्रदं, स्यात् स्वातिजं वारि तु मौक्तिकप्रदम्८२ प्रायेण बन्धं तु भविष्यदायुषो, वदन्ति यत् पर्वदिने जिनादयः / विशिष्य धर्मे दृढता विलोक्यते, तस्मिंस्ततः सूर्ययशोनरेन्द्रवत् 5783 आराध्यमानो विधिनैव दत्ते, धर्मः फलं नैव हठे कृतेऽपि / न तं विना कामदुघापि दुग्धं, कृतव्ययस्यापि ददौ नृपस्य।। 58 / 84 // यस्तामलिः षष्टिसहस्रवर्षा-वधि स्वरुच्या विदधे तपांसि / अल्पं फलं सोऽपि विना विवेकाल्लेभे ततः किं बहुकष्टयोगैः ?5885 कूरगडुमुनिनित्यभुक्तिसक्तोऽपि केवलम् / लेभे विवेकसाहाय्याच्छ्रमणैरपि तैर्न तु .. // 5886 // पञ्चमोऽधिकारः श्रीधर्म एव निधिरक्षय एष सौख्यश्रीणां हितः स्वपरयोश्च भवान्तरेऽपि श्रीधर्मराजचरितं विनिशम्य सम्यक् कस्तत्र वा शिथिलमादरमातनोति साम्राज्यमारोग्यमनेकसम्पदः, प्रधानरूपं शुभमायुरायतम् / जीवाऽनुकम्पा परचेतसां नृणां, भवे भवे स्युः किमिहोच्यते बहु 88 वेदे पुराणे स्मृतिषु प्ररूप्यते, यस्याः प्रधानत्वमनेककोविदः / विशिष्य तु श्रेष्ठतमे जिनागमे, कस्को न तां जीवदयां हि मन्यते ?89 श्रूयते हि कपोतेन, शत्रुरप्यात्ममन्दिरैः / प्राप्तो निमन्त्रितः स्वीय-मांसैः सदयचेतसा // 6090 // 2