________________ जयत्यतिशयश्रेणी, यदीया जगदद्भूता। . लक्षणानां दशशती, येषामष्टाधिका पुनः // 1 / 12 // येषां पञ्चाऽधिकत्रिंशद्वचनातिशयाः पुनः / भ्राजन्तेऽष्टाङ्गयोगश्च, येषां तादात्म्यमीयिवान् // 1 // 13 // यथावस्थितवस्तूनां, व्यवस्थापनतत्परम् / अनेकान्तमतं येषां, जागर्त्ययापि सिंहवत् . // 1 / 14 // लोकेषु शान्तिकाद्यं, यच्च चतुस्विशिकादिलिखनेन / स जिनातिशयानां खलु, महिमा तत्संख्यया ज्ञेयः // 1 / 15 // इति सदतिशयसमृद्धि, प्रतिप्रभातं जिनाधिनाथानाम् / ये संस्मरन्ति मनुजा-स्ते स्युः श्रेयोभिराढ्यतमाः // 1 / 16 // भो भव्या ! यदि वः शिवं जिगमिषा सम्यक्त्वमेकं तदा, स्वस्वान्ते ध्रियतां स्थिरं किमपरैर्बाह्यक्रियाडम्बरैः / अन्तःसागरकोटिकोटिविहितायुर्वर्जकर्मस्थितौ, यल्लभ्यं प्रतिभूश्च मोक्षविषये तस्मिन् कथं नादरः ? . // 217 // बलादपि श्राद्धजनस्य दीयते, सद्दर्शनं सर्वसुखैकजन्मभु। व्यदीधपद्वीरजिनस्तदुद्यमं, श्रीगौतमेनापि न किं कृषीवले? // 2 // 18 // श्रीवीतरागस्मरणैकताना, भवन्ति ये ते सुखभाजनं स्युः / यथाम्बिका रैवतदैवतं श्री-नेमि स्मरन्ती भवति स्म देवी // 3 // 19 // दुःखिनोऽपि न परित्यजन्ति ये, श्रीजिनार्चनविधावभिग्रहम् / धर्मकर्मणि रताः सुखान्विता-स्ते भवन्ति धनदः पुरा यथा।। 4 / 20 // अष्टप्रकारां मनुजा जिनार्चनां, सृजन्तु सिध्यन्ति यथाष्टसिद्धयः / सहोदरा अष्ट यथा महर्द्धय-श्छित्त्वाष्टकर्माणि शिवश्रियं श्रिताः५।२१ भवन्ति पुंसां जिनपादवन्दना-ऽभिसन्धिमात्रादपि सौख्यसम्पदः / विवन्दिषुर्वीरजिनं स दर्दुरो-ऽप्यभून्महद्धिस्त्रिदशो यथा दिवि 6 / 22