________________ // 4 // श्रीमत्सोमधर्मगणिविरचिता ॥उपदेशसप्ततिः // प्रथमोऽधिकारः श्रीसोमसुन्दरगुरूज्ज्वलकीर्तिपूरः, श्रीवर्धमानजिनएषशिवायवःस्तात् भव्या भवन्ति सुखिनो यदुदाहृतं श्रीचारित्ररत्नममलं परिपालयन्तः 1 श्रीरत्नशेखरगुरुप्रवरा जयन्तु, नैकक्षमाधरनिषेव्यपदारविन्दाः / ऐदंयुगीनमुनिषु प्रवरक्रियेषु, श्रीसार्वभौमपदवीं दधतेऽधुना ये॥ 2 // कथाप्रबन्धादिषु भूरिविस्तरे-ध्वनादरं ये दधतेऽल्पमेधसः / हिताय तेषामुपदेशसप्ततिः, प्रारभ्यते सर्वजनोपयोगिनी // 3 // सम्यक्त्वमूलं देवादि-तत्त्वत्रयमुदाहृतम् / तस्य स्वरूपं ज्ञातव्यं, सम्यग्ध्येयं च तत्रिधा देवतत्त्वे गुरौ तत्त्वे, धर्मतत्त्वे तृतीयके / द्वावेको द्वौ च वक्ष्यन्ते-ऽधिकारा अत्र पञ्च तु पूजाचतुर्विशतिकाऽत्र वाच्या, प्राच्ये कियत्तीर्थनुतिद्वितीये / गुरुस्तृतीये द्विविधश्च धर्म-स्तुर्ये तथा पञ्चमकेऽधिकारे // 6 // अर्हद्गुणस्मृतिध्यान-यात्राचैत्यस्तवांर्चनैः / सद्धर्मगुरुसेवाद्यैः, सम्यक्त्वस्थिरता भवेत् प्रायः कुटुम्बधनधान्यसुवर्णरत्न-प्रायेषु वस्तुषु नृणां सुलभो विवेकः / सद्देवधर्मगुरुतत्त्वविवेचने तु, केषाञ्चिदेव मतिरुल्लसितं तनोति 8 विधीयमानं गुणवज्जनार्चनं पुंसामसीमास्तूनुते सुसम्पदः / गुणाश्च सम्पूर्णतया जिनं विना, न स्युस्ततोऽयॊ भविकैजिनेश्वरः 1 / 9 यज्जन्मावसरे देवा, देव्योऽनाकारिता अपि / आगत्य सर्वे कुर्वन्ति, प्रौढोत्सवपरम्पराः // 1 / 10 // ज्ञानदर्शनचारित्रप्रमुखा सद्गुणावली। विलक्षणाऽन्यदेवेभ्यो, येषां जागर्त्यऽनुत्तरा // 1 / 11 // // 7 //