________________ अल्पापि पूजा विहिता जिनेशितुः, फलं महत्किं न तनोति देहिनाम् ? / कूष्माण्डवल्ली तनुकापि यच्छति, स्फारं फलं स्वाश्रितमानवेषु यत् 23 गूर्जरत्राभुवि त्राता, कुमारः परमार्हतः / अत्र चौलुक्यभूपालो, दृष्टान्तः परिकीर्त्यते // 7 // 24 // अज्ञानभावादपि पूजितो जिनो, विश्राणयत्यात्मपदं नृणां यतः / अरण्यमध्यस्थितबिम्बपूजकः, स देवपालोऽपि हि मुक्तिमाप्तवान् 8 / 25 जिनेन्द्रचन्द्रप्रतिमा तरीयते, निमज्जतां प्राणभृतां भवाम्बुधौ / तदर्शनादेव यतः प्रपत्रवान्, शय्यंभवः सूरिवरः सुदर्शनम् // 9 / 26 // गतानुगत्यापि विधीयमाना, पूजा परां सम्पदमादधाति / चटत्प्रकर्षां प्रतिजन्म लक्ष्मी, यथाऽऽप्य कीरोऽपि बभूव चक्री१०।२७ क्रोधोदयेऽप्यर्हति पूज्यमाने, भवेत्सुबोधिः सुलभो नराणाम् / दृष्टान्तमत्र प्रकटं वदन्ति, तं वामनं श्रेष्ठिवरं कवीन्द्राः // 11 / 28 // नादपूजां वितन्वन्ति ये मानवाः, श्रीजिनेन्दोः स्थिरस्फीतभावोद्यताः / तीर्थकृत्त्वं लभन्तेऽद्भुतं ते या, रावणो राक्षसानामधीशः पुरा 12 / 29 द्रव्यतोऽपि विहिता जिनपूजा, स्याच्छुभायतिकृते तनुभाजाम् / श्रीनर्मि च विनर्मि च मुनीन्द्राः, प्राहुरुत्तमनिदर्शनमत्र // 13 // 30 // हस्तात् प्रस्खलितं क्षितौ निपतितं लग्नं तथा पादयोर्यन्मूोर्ध्वगतं धृतं कुवसनै भेरधो यद्धृतम् / स्पष्टं दुष्टजनैर्घनैरभिहतं यदूषितं कीटकै-. स्त्याज्यं तत्कुसुमं फलं दलमपि श्राद्धैर्जिनार्चाक्षणे // 14 // 31 // पुष्पैरेवंविधैः पूजां, ये कुर्वन्ति जिनेशितुः / तेषां हीनकुले जन्म, भूवल्लभनरेन्द्रवत् // 14 // 32 // विधाय दीपं जिनपुङ्गवाना-मग्रेऽथ सर्वं निजगेहकृत्यम् / तेनैव चेन्मन्दमतिः करोति, प्राप्नोति मूर्खः स कुयोनिभावम् 15 / 33