________________ नविभावयन् / // 259 // // 260 // // 261 // // 262 // निदानं सर्वसौख्यानामन्नदानं विभावयन् / साधर्मिकाणां वात्सल्यं कुर्याच्छक्त्या समाः प्रति वात्सल्यं बन्धुमुख्यानां संसारार्णवमज्जनम् / तदेव समधर्माणां संसारोदधितारकम् प्रतिवर्ष संघपूजां शक्त्या कुर्याद्विवेकवान् / प्रासुकानि श्रीगुरुभ्यो दद्याद्वस्त्राणि भक्तितः वसत्यशनपानानि पात्रवस्त्रौषधानि च। चेन्न पर्याप्तविभवो दद्यात् तदपि शक्तितः सत्पात्रे दीयते दानं दीयमानं न हीयते / कूपारामगवादीनां ददतामेव संपदः प्रदत्तस्य च भुक्तस्य दृश्यते महदन्तरम् / प्रभुक्तं जायते वर्षों दत्तं भवति चाक्षयम् आयासशतलब्धस्य प्राणेभ्योऽपि गरीयसः / दानमेकैव वित्तस्य गतिरन्या विपत्तयः क्षेत्रेषु सप्तसु वपन् न्यायोपात्तं निजं धनम् / साफल्यं (सफलं) कुरुते श्राद्धो निजयोर्धनजन्मनोः // 263 // // 264 // // 265 // // 266 // // पं. सुमतिविजयगणिकृता // उपदेशकल्पवल्लिः प्रणम्य पुण्यपद्मार्क-पञ्च श्रीपरमेष्ठिनः / पुण्योपदेशाः प्रोच्यन्ते, केचित्प्रस्तावचारवः / पूर्वाङ्गोपाङ्गसार्वज्ञ-चरित्रादिश्रुतोदधेः। . सारं सुधेयं श्रीधर्मो, बुध्यतां विबुधप्रियः // 1 // // 2 //