________________ // 3 // // 4 // // 6 // // 7 // // 8 // मनोऽभिमतवस्तूनां, संस्तवो जायते यतः / बुधाः विदधतां धर्म, तं श्रद्धाविधिबन्धुरम् मृदुलासरला मिश्रा, यथा बीजोद्गमाय भूः / चेतोवृत्तिस्तथा धर्मो-दयाय गदिताऽङ्गिनाम् धर्मस्थानेषु गन्तव्यं, श्रोतव्यं सद्गुरोर्वचः / धर्तव्यं हृदि तन्नित्यं, कर्तव्यं क्रियया तथा तीर्थ देवगृहं शा -श्रवणं साधुसङ्गतिः / पुण्यकृतोत्सवा ज्ञेयं, धर्मस्थानकपञ्चकम् द्यूतं पणाङ्गना मद्यं, चौरिका जीवहिंसनम् / इदं धर्मार्थिना हेयं, पापस्थानकपञ्चकम् सुतश्चिलात्याः स्त्रीहन्ता, व्यसनी समरो नृपः। पदमेकैकमाकर्ण्य, प्रबुद्धौ द्वावपि द्रुतम् श्रुताः क्षेत्रपतिक्रीड-बालकुम्भकृतां मुखात् / श्रीयवर्षेः शिवायासन्, ग्राम्यार्था अपि गाथिकाः सदगुरोर्गुणकारि स्यादरुच्यापि श्रुतं वचः / इहोदाहरणं रौहिणेयश्चौरो विचार्यताम् उन्मार्गमिन्द्रियग्रामा-नुगा नैति गुणप्रजा। आत्मप्रभौ गुरुवचोऽवहितस्वान्तमन्त्रिणि भृत्वा चित्तालवालं श्री-गुरुवाक्तत्त्ववारिभिः / श्रीमान् धर्मद्रुमो वृद्धि, लम्भितः सफलो भवेत् क्षुल्लकः क्षमापतिमिण्ठ-मन्त्रीभुक्सार्थपाङ्गनाः / प्रबुद्धा नर्तकीगीतां, स्वान्ते धृत्वा ध्रुवामपि श्रुत्वा गुरोर्वचो धृत्वा, चित्ते ज्ञात्वा च तद्गुणम् / नाप्नोति सद्गतेः सौख्य-मकुर्वाणो क्रियारुचिम् 40 // 10 // // 11 // // 12 // // 13 // // 14 //