________________ // 143 // . // 144 // // 145 // // 146 // // 147 // // 148 // ऋणाद्धर्म विजानाति त्याज्यं दत्ते धने सति। विरोधं स्वजनैः सार्द्ध स्नेहं च कुरुते परैः उक्त्वा स्वयं च हसति यत्तत्खादति वक्ति च। इहामुत्र विरुद्धानि मूर्खचिह्नानि संत्यजेत् न्यायार्जितधनश्चर्यामदेशाकालयोस्त्यजन् / राजविद्वेषिभिः संगं विरोधं च घनैः समम् अन्यगोत्रैः कृतोद्वाहः कुलशीलसमैः समम् / सुप्रातिवेश्मिके स्थाने कृतवेश्मान्वितः स्वकैः उपप्लुतं त्यजन् स्थानं कुर्वनायोचितं व्ययम् / वेषं वित्तानुसारेणाप्रवृत्तो जनगर्हिते देशाचारं चरन् धर्मममुञ्चन्नाश्रिते हितः / बलाबलं विदन् जानन् विशेषं च हिलाहितम् वशीकृतेन्द्रियो देवे गुरौ च गुरुभक्तिमान् / यथावत् स्वजने दीनेऽतिथौ च प्रतिपत्तिकृत् एवं विचारचातुर्यं रचयंश्चतुरैः समम्। कियतीमतिकमन्वेलां शृण्वन् शास्त्राणि वा भणन् कुर्वीतार्थार्जनोपायं न तिष्ठेदैवतत्परः / उपक्रमं विना भाग्यं पुंसां फलति न क्वचित् शुद्धेन व्यवहारेण व्यवहारं सृजेत्सदा। कूटतुलां कूटमानं कूटलेख्यं च वर्जयेत् अङ्गारवनशकटभाटकस्फोटजीविका / दन्तलाक्षारसकेशविषवाणिज्यकानि च यन्त्रपीडा निर्लाञ्छनमसतीपोषणं तथा। .. दवदानं सरःशोषः इति पञ्चदश त्यजेत् 30 // 149 // // 150 // // 151 // // 152 // // 153 // // 154 //