________________ // 155 // // 156 // // 157 // // 158 // // 159 // // 160 // लोहं मधूकपुष्पाणि मदनं माक्षिकं तथा / वाणिज्याय न गृह्णीयात् कन्दान् पत्राणि वा सुधीः स्थापयेत्फाल्गुनादूर्ध्वं न तिलानतसीमपि। गुडटुप्परकादीनि जन्तुघ्नानि घनागमे शकटं वा बलीवन् नैव प्रावृषि वाहयेत् / प्राणिहिंसाकरं प्रायः कृषिकर्म न कारयेत् विक्रीणीयात्प्राप्तमूल्यं न हीच्छेदधिकाधिकम् / अतिमूल्यकृतां प्रायो मूलनाशः प्रजायते उद्धारके न प्रदद्यात् सति लाभे महत्यपि / ऋते ग्रहणकाद् व्याजे न प्रदद्याद्धनं खलु जानन् स्तेनाहृतं नैव गृह्णीयाद्धर्ममर्मवित् / वर्जयेत् तत्प्रतीरूपं व्यवहारं विचारवान् तस्करैरन्त्यजेधूतैर्मलिनैः पतितैः समम्। . इहामुत्र हितं वाञ्छन् व्यवहारं परित्यजेत् विक्रीणानः स्ववस्तूनि वदेत्कूटक्रयं न हि / आददानोऽन्यसत्कानि सत्यंकारं न लोपयेत् अदृष्टवस्तुनो नैव साटकं दृढयेद् बुधः / स्वर्णरत्नादिकं प्रायो नाददीतापरीक्षितम् राजतेजो विना न स्यादनापन्निवारणम्। ' नृपाद्याननुसरेत्तत्पारवश्यमनाश्रयन् तपस्विनं कविं वैद्यं मर्मज्ञं भोज्यकारकम् / मान्त्रिकं निजपूज्यं च कोपयेज्जातु नो बुधः अतिक्लेशं च धर्मातिक्रमणं नीचसेवनम् / विश्वस्तघातकरणं नाचरेदर्थतत्परः // 161 // // 162 // // 163 // // 164 // // 165 // // 166 //