________________ // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // वामा वा दक्षिणा वापि या नाडी वहते सदा / सय्योत्थितस्तमेवादौ पादं दद्याद् भुवस्तले . मुक्त्वा शयनवस्त्राणि परिधायापराणि च / स्थित्वा सुस्थानके धीमान् ध्यायेत्पञ्चनमस्क्रियाम् उपविश्य च पूर्वाशाभिमुखो वाप्युदङ्मुखः / पवित्राङ्गः शुचिस्थाने जपेन्मन्त्रं समाहितः अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा। ध्यायन्पश्चनमस्कारं सर्वपापैः प्रमुच्यते अंगुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने / संख्याहीनं च यज्जतं तत्प्रायोऽल्पफलं भवेत् जपो भवेत् त्रिधोत्कृष्टमध्यमाधमभेदतः / पादिविधिना मुख्योऽपरः स्याज्जपमालया विना मौनं विना संख्यां विना चेतोनिरोधनम् / विना स्थानं विना ध्यानं जघन्यो जायते जपः ततो गत्वा मुनिस्थानमथवात्मनिकेतनम् / निजपापविशुद्ध्यर्थं कुर्यादावश्यकं सुधी: रात्रिकं स्यादेवसिकं पाक्षिकं चातुर्मासिकम् / सांवत्सरं चेति जिनैः पञ्चधावश्यकं कृतम् कृतावश्यककर्मा च स्मृतपूर्वकुलक्रमः / / प्रमोदमेदुरस्वान्तः कीर्तयेन्मङ्गलस्तुतिम् मङ्गलं भगवान् वीरो मङ्गलं गौतमः प्रभुः / मङ्गलं स्थूलभद्राद्या जैनो धर्मोऽस्तु मङ्गलम् नाभेयाद्या जिनाः सर्वे भरताद्याश्च चक्रिणः / कुर्वन्तु मङ्गलं सीरि-विष्णवः प्रतिविष्णवः // 21 // // 22 // // 23 // // 24 // // 25 // // 26 //