________________ // 6 // // 7 // // 8 // जन्तवः सुखमिच्छन्ति, निस्तुषं तच्छिवे भवेत् / तद् ध्यानात्तन्मनःशुद्ध्या कषायविजयेन सा .. // 3 // स इन्द्रियजयेन स्यात्सदाचारादसौ भवेत् / स जायते सूपदेशानृणां गुणनिबन्धनम् .. // 4 // सुबुद्धिः सूपदेशेन, ततोऽपि च गुणोदयः / इत्याचारोपदेशाख्यग्रन्थः प्रारभ्यते मया सदाचारविचारेण रुचिरश्चतुरोचितः / देवानन्दकरो ग्रन्थः श्रोतव्योऽयं शुभात्मभिः पुद्गलानां परावर्त-दुर्लभं जन्म मानुषम् / लब्ध्वा विवेकिना धर्मे विधेयः परमादरः धर्मः श्रुतोऽपि दृष्टोऽपि कृतोऽपि कारितोऽपि च / अनुमोदितोऽपि नियतं पुनात्यासप्तमं कुलम् विना त्रिवर्गं विफलं पुंसो जन्म पशोरिव / तत्र स्यादुत्तमो धर्म-स्तं विना न यतः परौ // 9 // मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् / आयुश्च प्राप्यते तत्र कथञ्चित्कर्मलाघवात् // 10 // प्राप्तेषु पुण्यतस्तेषु श्रद्धा भवति दुर्लभा। ततः सद्गुरुसंयोगो लभ्यते गुरुभाग्यतः // 11 // लब्धं हि सर्वमप्येतत्सदाचारेण शोभते / नयेनेव नृपः पुष्पं गन्धेनाज्येन भोजनम् // 12 // शास्त्रदृष्टेन विधिना सदाचारपरो नरः / परस्पराविरोधेन त्रिवर्ग साधयेत्सदा . // 13 // तुर्ये यामे त्रियामाया ब्राह्म मुहूर्ते कृतोद्यमः / . . मुञ्चेन्निद्रां सुधीः पञ्च-परमेष्ठिस्तुति पठन् // 14 // 26