________________ // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // यथा फलायाबीजानि बीजबुद्ध्योखरे वपेत् / तथा वप्स्यन्त्यकल्पानि कुपात्रे कल्पबुद्धितः यद्वा घुणाक्षरन्यायाद्यथा कोऽपि कृषीवलः / अबीजान्तर्गतं बीजं वपेत् क्षेत्रे निराशयः अकल्पान्तर्गतं कल्पमज्ञानाः श्रावकास्तथा / पात्रे दानं करिष्यन्ति बीजस्वप्नफलं ह्यदः क्षमादिगुणपद्माङ्काः सुचरित्राम्बुपूरिताः / रहःस्था भाविनः कुम्भा इव स्तोका महर्षयः श्लथाचारचरित्राश्च कलशा मलिना इव / यत्र तत्र भविष्यन्ति बहवो लिङ्गिनः पुनः समत्सराः करिष्यन्ति कलहं ते महर्षिभिः / उभयेषामपि तेषां साम्यं लोके भविष्यति गीतार्था लिङ्गिनश्च स्युः साम्येन व्यवहारिणः / . जनेन ग्रहिलेनेवाग्रहिलग्रहिलो नृपः तथाहि पृथिवीपुर्यां पूर्णो नाम महीपतिः / सुबुद्धिस्तस्य चामात्यो निधानं बुद्धिसंपदः कालं तेनागमिष्यन्तं पृष्टोऽन्येद्युः सुबुद्धिना / लोकदेवोऽभिधानेन नैमित्तिकवरोऽवदत् . मासादनन्तरं मेघो वर्षिता तज्जलं पुनः / . यः पांस्यति स सर्वोऽपि ग्रहग्रस्तो भविष्यति कियत्यपि गते काले सुवृष्टिश्च भविष्यति / पुनः सज्जाः भविष्यन्ति तत्पयःपानतो जनाः राज्ञे मन्त्री तदाचख्यौ राजाऽप्यानकताडनात् / आख्यापयज्जने वारिसंग्रहार्थमथाऽऽदिशत् // 26 // // 27 // // 28 // // 29 // // 30 // // 31 // 334