________________ // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // क्षीरद्भुतुल्याः सुक्षेत्रे दातारः शासनार्चकाः। . श्रावकास्ते तु रोत्स्यन्ते लिङ्गिभिर्वञ्चनापरैः तेषां च प्रतिभास्यन्ति सिंहसत्त्वभृतोऽपि हि / महर्षयः सारमेया इवासारमतिस्पृशाम् आदास्यन्ते सुविहितविहारक्षेत्रपद्धतिम् / लिङ्गिनो बब्बूलसमाः क्षीनुफलमीदृशम् धृष्टस्वभावा मुनयः प्रायो धर्माथिनोऽपि हि / रंस्यन्ते न हि गच्छेषु दीर्घिकाम्भ:स्विव द्विकाः ततोऽन्यगच्छिकैः सूरिप्रमुखैर्वञ्चनापरैः। . मृगतृष्णानिभैः सार्धं चलिष्यन्ति जडाशयाः न युक्तमेभिर्गमनमिति तत्रोपदेशकान् / बाधिष्यन्ते नितान्तं ते काकस्वप्नफलं ह्यदः सिंहतुल्यं जिनमतं जातिस्मृत्याद्यनूज्झितम् / विपत्स्यतेऽस्मिन् भरतवने धर्मज्ञवर्जिते. न कुतीर्थिकतिर्यञ्चोऽभिभविष्यन्ति जातु तत् / - स्वोत्पन्नाः कृमिवत्किं तु लिङ्गिनोऽशुद्धबुद्धयः लिङ्गिनोऽपि प्राक्प्रभावात् श्वापदाभैः कुतीथिकैः / न जात्वभिभविष्यन्ते सिंहस्वप्नफलं ह्यदः अब्जाकरेष्वम्बुजानि सुगन्धीनीव देहिनः / धार्मिका न भविष्यन्ति संजाताः सुकुलेष्वपि अपि धर्मपरा भूत्वा भविष्यन्ति कुसङ्गतः / ग्रामावकरकोत्पन्नगर्दभाब्जवदन्यथा . कुदेशे कुकुले जाता धर्मस्था अपि भाविनः / हीना इत्यनुपादेयाः पद्मस्वप्नफलं ह्यदः ' 334 // 14 // // 15 // // 17 // // 18 // // 19 //