________________ کے ی अहिंसासूनृतास्तेयब्रह्माकिंचनतामयः / केवल्युपज्ञः परमो धर्मश्च शरणं मम अपि जन्मशतैर्यद्यदंपराद्धं शरीरिषु / त्रिविधं त्रिविधेनापि तन्निन्दामि समाहितः गृहिधर्म द्वादशधा मया पालयता कृताः / ये केचिदप्यतीचारास्तान् सर्वान् व्युत्सृजाम्यहम् क्रोधमानमायालोभाभिभूतेन मया सदा / कृतं यद्यच्च हिंसाऽऽदि तत्रिधापि धिगस्तु मे // 7 // و // 8 // // दीपालिकायामुपयोगि हस्तिपालस्वप्नफलम् // विवेकवन्तो भूत्वाऽपि हस्तितुल्या अतः परम् / वत्स्यन्ति श्रावका लुब्धाः क्षणिकर्द्धिसुखे गृहे // 1 // न दौस्थ्ये परचक्रे वा प्रव्रजिष्यन्त्युपस्थिते / . आत्तामपि परिव्रज्यां त्यक्ष्पन्ति च कुसङ्गतः // 2 // विरलाः पालयिष्यन्ति कुसङ्गेऽपि व्रतं खलु / इदं गजस्वप्नफलं कपिस्वप्नफलं त्वदः // 3 // प्रायः कपिसमा लोलपरिणामाऽल्पसत्त्वकाः / आचार्यमुख्या गच्छस्थाः प्रमादं गामिनो व्रते // 4 // ते विपर्यासयिष्यन्ति धर्मस्थानितरानपि / भाविनो विरला एव धर्मोद्योगपराः पुनः // 5 // धर्मश्लथेषु ये शिक्षा प्रदास्यन्त्यप्रमादिनः / ते तैरुपहसिष्यन्ते ग्राम्यैामस्थपौरवत् इत्थं प्रवचनाऽवज्ञाऽतः परं हि भविष्यति / प्लवङ्गमस्वप्नफलमिदं जानीहि पार्थिव ! // 7 // 333