________________ // 1 // मलायः // 2 // ॥एकोनविंशतितमश्रीमल्लिजिनदेशना-समतास्वरूपमयी॥ स्वतोऽप्यपारः संसारो वर्धते च विशेषतः / रागादिना पूर्णमासीदिनेनेव सरित्पतिः अमन्दानन्दजनके साम्यवारिणि मज्जताम् / .. जायते सहसा पुंसां रागद्वेषमलक्षयः प्रणिहन्ति क्षणार्धेन साम्यमालम्ब्य कर्म तत् / यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः / कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः / विभिन्नीकुरुते साधुः सामायिकशलाकया // 4 // रागादिध्वान्तविध्वंसे कृते सामायिकांशुना / स्वस्मिन् स्वरूपं पश्यन्ति योगिनः परमात्मनः स्निह्यन्ति जन्तवो नित्यवैरिणोऽपि परस्परम् / अपि स्वार्थकृते साम्यभाजः साधोः प्रभावतः चेतनाचेतनै वैरिष्टानिष्टतया स्थितैः / . न मुह्यति मनो यस्य तस्य साम्यं प्रचक्ष्यते // 7 // गोशीर्षचन्दनालेपे वासिच्छेदे च बाहयोः / अभिन्ना चित्तवृत्तिश्चेत्तदा साम्यमनुत्तमम् अभिष्टोतरि च प्रीते रोषान्धे चाभिशप्तरि / यस्याविशेषणं चेतः स साम्यमवगाहते // 9 // हूयते न जप्यते न दीयते वा न किंचन / अहो अमूल्यकीतीयं साम्यमात्रेण निर्वृतिः प्रयत्नकृष्टैः क्लिष्टैश्च रागाद्यैः किमुपासितैः ? अयत्नलभ्यं हृद्यं च धार्य साम्यं सुखावहम् . . // 11 // // 8 // // 10 // 310