________________ // 9 // // 10 // // 11 // // 12 // // 13 // दोषाः स्मरप्रभृतयो रागस्य परिचारिकाः / मिथ्याभिमानप्रमुखा द्वेषस्य तु परिच्छदः तयोर्मोह: पिता बीजं नायकः परमेश्वरः / ताभ्यामभिन्नस्तंद्रक्ष्यः सर्वदोषपितामहः एवमेते त्रयो दोषा नातो दोषान्तरं क्वचित् / तैरमी जन्तवः सर्वे भ्राम्यन्ते भववारिधौ स्वभावेन हि जीवोऽयं स्फटिकोपलनिर्मलः / उपाधिभूतैरेतैस्तु तादात्म्येनावभासते अराजकमहो विश्वं यदेभिः पश्यतोहरैः / हियते ज्ञानसर्वस्वं स्वरूपमपि जन्मिनाम् ये जन्तवो निगोदेषु येऽपि चासन्नमुक्तयः / सर्वत्रास्पृष्टकरुणा पतत्येषां पताकिनी . मुक्त्या वैरं किमेतेषां ? मुक्तिकामैः सहाथवा ? . येनोभयसमायोगस्तैर्भवन् प्रतिषिध्यते व्याघ्रव्यालजलाग्निभ्यो न बिभेति तथा मुनिः / लोकद्वयापकारिभ्यो रागादिभ्यो भृशं यथा वातिसंकटमहो योगिभिः समुपाश्रितम् / / रागद्वेषौ व्याघ्रसिंही पार्श्वतो यस्य तिष्ठतः अस्ततन्द्रैरतः पुंभिनिर्वाणपदकाक्षिभिः / . विधातव्यः समत्वेन रागद्वेषद्विषज्जयः // 14 // // 15 // // 16 // // 17 // // 18 // 306