________________ // 15 // // 17 // 8. // 19 // // 20 // चारित्रचित्ररचनां विचित्रगुणधारिणीम् / . समुत्सर्पन् क्रोधधूमो श्यामलीकुरुतेतमाम् यो वैराग्यशमीपत्रपुटैः शमरसोऽर्जितः / शाकपत्रपुटाभेन क्रोधेनोत्सृज्यते स किम् प्रवर्धमानः क्रोधोऽयं किमकार्यं करोति न। भाविनी द्वारका द्वैपायनक्रोधानले समित् क्रुध्यतः कार्यसिद्धिर्या न सा क्रोधनिबन्धना / जन्मान्तराजितोर्जस्विकर्मणः खलु तत् फलम् स्वस्य लोकद्वयोच्छित्त्यै नाशाय स्व-घरार्थयोः / धिगहो ! दधति क्रोधं शरीरेषु शरीरिणः क्रोधान्धाः पश्य निघ्नन्ति पितरं मातरं गुरुम् / सुहृदं सोदरं दारानात्मानमपि निघृणाः क्रोधवतेस्तदह्राय शमनाय शुभात्मभिः / श्रयणीया क्षमैकैव संयमारामसारणिः अपकारिजने कोपो निरोढुं शक्यते कथम् / शक्यते सत्त्वमाहात्म्याद् यद्वा भावनयाऽनया अङ्गीकृत्यात्मनः पापं यो मां बाधितुमिच्छति / स्वकर्मनिहतायास्मै कः कुप्येद् बालिशोऽपि सन् ? प्रकुप्याम्यपकारिभ्य इति चेदाशयस्तव / तत् किं न कुप्यसि स्वस्य कर्मणे दुःखहेतवे? उपेक्ष्य लोष्टक्षेप्तारं लोष्टं दशति मण्डलः / मृगारिः शरमुत्प्रेक्ष्य शरक्षेप्तारमृच्छति यैः परः प्रेरितः क्रूरैर्मह्यं कुप्यति कर्मभिः / / तान्युपेक्ष्य परे क्रुध्यन् किं श्रये भषणश्रियम् ? 24 // 21 // // 3 // // 24 // // 26 //