________________ // 3 // // 4 // // 5 // // 6 // // 7 // // 8 // आत्मैव दर्शन-ज्ञान-चारित्राण्यथवा यतेः / यत् तदात्मक एंवैष शरीरमधितिष्ठति आत्मानमात्मना वेत्ति मोहत्यागाद् य आत्मनि / तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् आत्माऽज्ञानभवं दुःखमात्मज्ञानेन हन्यते / तपसाऽप्यात्मविज्ञानहीनैश्छेत्तुं न शक्यते अयमात्मैव चिद्रूपः शरीरी कर्मयोगतः / ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यानिरञ्जनः अयमात्मैव संसारः कषायेन्द्रियनिर्जितः / तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः स्युः कषायाः क्रोध-मान-माया-लोभाः शरीरिणाम् / चतुर्विधास्ते प्रत्येकं भेदैः संज्वलनादिभिः पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् / .. अप्रत्याख्यानको वर्ष जन्मानंन्तानुबन्धकः . वीतराग-यति-श्राद्ध-सम्यग्दृष्टित्वघातकाः / ते देवत्व-मनुष्यत्व-तिर्यक्त्व-नरकप्रदाः तबोपतापक: क्रोधः क्रोधो वैरस्य कारणम् / दुर्गतेर्वर्तनी क्रोधः क्रोधः शमसुखार्गला . उत्पद्यमानः प्रथमं दहत्येव स्वमाश्रयम् / / क्रोधः कृशानुवत् पश्चादन्यं दहति वा न वा अर्जितं पूर्वकोट्या यद्वषैरष्टभिरूनया / तपस्तत्तत्क्षणादेव दहति क्रोधपावकः शमरूपं पयः प्राज्यपुण्यसंभारसंचितम् / अमर्षविषसंपर्कादसेव्यं तत्क्षणाद् भवेत् 263 // 9 // // 10 // // 11 // // 12 // // 13 // // 14 //