________________ // 27 // // 28 // // 29 // // 30 // // 31 // भावी ह्यहन्महावीरः क्षान्त्यै म्लेच्छेषु यास्यति / अयत्नेनागतां क्षान्तिं वोढुं किमिव नेच्छसि ? त्रैलोक्यप्रलयत्राणक्षमाश्चेदाश्रिताः क्षमाम् / कदलीतुल्यसत्त्वस्य क्षमा तव न कि क्षमा ? तथा कि नाकृथाः पुण्यं यथा कोऽपि न बाधते / स्वप्रमादमिदानीं तु शोचनङ्गीकुरु क्षमाम् क्रोधान्धस्य मुनेश्चण्डचण्डालस्य च नान्तरम् / तस्मात् क्रोधं परित्यज्य भजोज्ज्वलधियां पदम् महर्षिः क्रोधसंयुक्तो निष्कोधः कूरगड्डुकः / ऋषि मुक्त्वा देवताभिः स्तोष्यते कूरगड्डकः अरुन्तुदैर्वचःशस्त्रैस्तुद्यमानो विचिन्तयेत् / चेत् तथ्यमेतत् कः कोपोऽथ मिथ्योन्मत्तभाषितम् / वधायोपस्थितेऽन्यस्मिन् हसेद् विस्मितमानसः / . वधे मत्कर्मसंसाध्ये वृथा नृत्यत्ति बालिशः. निहन्तुमुद्यते ध्यायेदायुषः क्षय एष नः / तदसौ निर्भयः पापात् करोति मृतमारणम् सर्वपुरुषार्थचौरे कोपः कोपे न चेत् तव / धिक् त्वां स्वल्पापराधेऽपि परेकोपपरायणम् सर्वेन्द्रियग्लानिकरं प्रसर्पन्तं ततः सुधीः / . क्षमया जाङ्गुलिकया जयेत् कोपमहोरगम् विनयश्रुतशीलानां त्रिवर्गस्य च घातकः / विवेकलोचनं लुम्पन्मानोऽन्धंकरणो नृणाम् जाति-लाभ-कुलैश्वर्य-बल-रूप-तप-श्रुतैः / कुर्वन् मदं पुनस्तानि हीनानि लभते जनः 25 // 33 // // 34 // // 35 // / / 36 // // 37 // // 38 //