________________ // 12 // असंप्राप्ते बोधिरत्ने चक्रवर्त्यपि रङ्कवत् / संप्राप्तबोधिरत्नस्तु रङ्कोऽपि स्यात् ततोऽधिकः संप्राप्तबोधयो जीवा न रज्यन्ते भवे क्वचित् / निर्ममत्वा भजन्त्येकं मुक्तिमार्गमनर्गलाः // 13 // // // // चतुर्दशश्रीमदनन्तजिनदेशना - सप्ततत्त्वमयी // अतत्त्वविदुरो जन्तुरमार्गज्ञ इवाध्वगः / आस्मन् संसारकान्तारं बम्भ्रमाति दुरुत्तरं // 1 // जीवाजीवावाश्रवश्च संवरो निर्जरा तथा / बन्धो मोक्षश्चेति सप्त तत्त्वान्याहुर्मनीषिणः // 2 // तत्र जीवा द्विधा ज्ञेया मुक्तसंसारिभेदतः / अनादिनिधनाः सर्वे ज्ञान-दर्शनलक्षणाः . मुक्ता एकस्वभावाः स्युर्जन्मादिक्लेशवर्जिताः / अनन्तदर्शनज्ञानवीर्यानन्दमयाश्च ते / संसारिणो द्विधा जीवाः स्थावर-त्रसभेदतः / द्वितयेऽपि द्विधा पर्याप्ताऽपर्याप्तविशेषतः पर्याप्तयस्तु षडिमाः पर्याप्तत्वनिबन्धनम् / / आहारो वपुरक्षाणि प्राणो भाषा मनोऽपि च . // 6 // स्युरेकाक्ष-विकलाक्ष-पञ्चाक्षाणां शरीरिणाम् / . . चतस्रः पञ्च षट् चापि पर्याप्तयो यथाक्रमम् एकाक्षाः स्थावरा भूम्यतेजोवायुमहीरुहः / तेषां तु पूर्वे चत्वारः स्युः सूक्ष्मा बादरा अपि प्रत्येकाः साधारणाश्च द्विप्रकारा महीरुहः / तेऽत्र पूर्वे बादराः स्युरुत्तरे सूक्ष्म-बादराः . 287 x m3. w9 v // // // //