________________ // 12 // सर्वमन्यदिदं तस्माज्जानीयात् पटुधीर्जनः / कस्यापि हि विनाशात् तन्न मुह्येत् तत्त्ववर्त्मनि अस्यन् ममत्वमृल्लेपं तुम्बीफलमिवाचिरात् / भवं तरति शुद्धात्मा परिव्रज्याधरो नरः // 13 // // 4 // // अष्टमश्रीचन्द्रप्रभजिनदेशना - अशुचित्वदर्शिनी / / अनन्तक्लेशकल्लोलनिलयो भवसागरः / तिर्यगूर्ध्वमधो जन्तून् क्षिपत्येष प्रतिक्षणम् एकं निबन्धनं तस्य क्रियते प्राणिभी रतिः / अशुचौ कृमिभिरिव यदत्रापि शरीरके // 2 // रसा-ऽसृग-मांस-मेदो-ऽस्थि-मज्जा-शुक्रा-ऽन्त्र-वर्चसाम् / अशुचीनां पदं कायः शुचित्वं तस्य तत् कुतः ? // 3 // नवस्रोतःस्रवद्विस्तरसनिःस्यन्दपिच्छिले / / देहेऽपि शौचसङ्कल्पो महामोहविजृम्भितम् . शुक्र-शोणितसम्भूतो मलनिःस्यन्दवद्धितः / / गर्भे जरायुसञ्छनः शुचिः कायः कथं भवेत् ? मातृजग्धान-पानोत्थरसं नाडीक्रमागतम् / पायं पायं विवृद्धः सन् शौचं.मन्येत कस्तनोः ? दोषधातुमलाकीर्णं कृमि-गण्डूपदास्पदम् / . . रोगभोगिगणैर्जग्धं शरीरं को वदेच्छुचि ? // 7 // सुस्वादून्यन्न-पानानि क्षीरेक्षुविकृतीरपि / भुक्तानि यत्र विष्ठायै तच्छरीरं कथं शुचि ? // 8 // विलेपनार्थमासक्तः सुगन्धिर्यक्षकर्दमः / मलीभवति यत्राऽऽशु क्व शौचं तत्र वर्मणि ? . 273