________________ जग्ध्वा सुगन्धि ताम्बूलं सुप्तो निश्युत्थितः प्रगे। जुगुप्सते वक्त्रगन्धं यत्र तत् किं वपुः शुचि ? // 10 // स्वतःसुगन्धयो गन्ध-धूप-पुष्प-स्रगादयः / यत्सङ्गाद् यान्ति दौर्गन्ध्यं सोऽपि कायः शुचीयते ? // 11 // अभ्यक्तोऽपि विलिप्तोऽपि धौतोऽपि घटकोटिभिः / / न याति शुचितां कायः शुण्डाघट इवाऽशुचिः // 12 // मृज्जला-ऽनल-वातांशुस्नानैः शौचं वदन्ति ये। गतानुगतिकैस्तैस्तु विहितं तुषखण्डनम् तदनेन शरीरेण कार्य मोक्षफलं तपः / क्षाराब्धे रत्नवद् धीमानसारात् सारमुद्धरेत् // 14 // // 2 // // नवमश्रीसुविधिजिनदेशना - आश्रवभावनामयी // अनन्तदुःखसम्भारनिधानं खल्वयं भवः / प्रभवश्चाऽऽस्रवस्तस्य विषंस्येव महोरगः // 1 // मनो-वाक्कायकर्माणि योगाः कर्म शुभा-ऽशुभम् / यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिताः मैत्र्यादिवासितं चेतः कर्म सूते शुभात्मकम् / कषाय-विषयाक्रान्तं वितनोत्यशुभं पुनः शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः / विपरीतं पुनर्जेयमशुभार्जनहेतवे शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् / सततारम्भिणा जन्तुघातकेनाशुभं पुनः कषाया विषया योगाः प्रमादा-ऽविरती तथा। मिथ्यात्वमार्त्त-रौद्रे चेत्यशुभं प्रति हेतवः / // 4 // // 6 // 204