________________ // 2 // // 3 // // सप्तमश्रीसुपार्श्वजिनदेशना - अन्यत्वनिरूपिका // आत्मनः सर्वमप्येतदन्यत् तदिह तत्कृते / कृत्वा कर्म भवाब्धौ स्वं पातयत्यबुधो जनः यत्रान्यत्वं शरीरस्य वैसदृश्याच्छरीरिणः / धन-बन्धु-सहायानां तत्रान्यत्वं न दुर्वचम् यो देह-धन-बन्धुभ्यो भिन्नमात्मानमीक्षते / व शोकशङ्कुना तस्य हन्ताऽऽतङ्कः प्रतन्यते ? इहान्यत्वं भवेद् भेदः स वैलक्षण्यलक्षणः / आत्म-देहादिभावानां साक्षादेव प्रतीयते // 4 // देहाद्या इन्द्रियग्राह्या आत्माऽनुभवगोचरः / तदेतेषामनन्यत्वं कथं नामोपपद्यते ? आत्मदेहादिभावानां यद्यन्यत्वं स्फुटं ननु / ततो देहप्रहारादौ कथमात्मा प्रपीड्यते ? // 6 // सत्यं येषां शरीरादौ भेदबुद्धिर्न विद्यते / तेषां देहप्रहारादावात्मपीडोपजायते ये तु देहा-ऽऽत्मनोर्भेदं सम्यगेव प्रपेदिरे / तेषां देहप्रहारादावपि नाऽऽत्मा प्रपीड्यते / // 8 // भेदं विद्वान् न पीड्येत पितृदुःखेऽप्युपस्थिते / आत्मीयत्वाभिमानेन भृत्यदुःखेऽपि मुह्यति अस्वत्वेन गृहीतः सन् पुत्रोऽपि पर एव हि / स्वकीयत्वेन भृत्योऽपि स्वपुत्रादतिरिच्यते // 10 // सम्बन्धानात्मनो जन्तुर्यावतः कुरुते प्रियांन् / तावन्तो हृदये तस्य जायन्ते शोकशङ्कवः / // 11 // 22 // 7 //