________________ // 47 // // 48 // // 49 // // 50 // // 51 // . // 52 // मनुष्यत्वेऽनार्यदेशे समुत्पन्नाः शरीरिणः / तत् तत् पापं प्रकुर्वन्ति यद् वक्तुमपि न क्षमम् उत्पन्ना आर्यदेशेऽपि चाण्डाल-श्वपंचादयः / तत् तत् पापं प्रकुर्वन्ति दुःखान्यनुभवन्ति च आर्यदेशे समुद्भूता अप्यनार्यविचेष्टिताः / दुःख-दारिदय-दौर्भाग्यनिर्दग्धा दुःखमासते परसम्पत्प्रकर्षेणापकर्षेण स्वसम्पदाम् / परप्रेष्यतया दग्धा दुःखं जीवन्ति मानवाः रुग्-जरा-मरणैस्ता नीचकर्मकदर्थिताः / तां तां दुःखदशां दीनाः प्रपद्यन्ते दयास्पदम् जरा रुजा मृतिर्दास्यं न तथा दुःखकारणम् / गर्भे वासो यथा घोरनरकावाससन्निभः सूचीभिरग्निवर्णाभिभिन्नस्य प्रतिरोम यत् / दुःखं नरस्याष्टगुणं तद् भवेद् गर्भवासिनः योनियन्त्राद् विनिष्कामन् यद् दुःखं लभते भवी / गर्भवासभवाद् दुःखात् तदनन्तगुणं खलु बाल्ये मूत्र-पुरीषेण यौवने रतचेष्टितैः / वार्धके श्वास-कासाद्यैर्जनो जातु न लज्जते पुरीषसूकरः पूर्वं ततो मदनगर्दभः / जराजरद्गवः पश्चात् कदाऽपि न पुमान् पुमान् स्याच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः / वृद्धभावे सुतमुखो मूर्यो नान्तर्मुखः क्वचित् सेवा-कर्षण-वाणिज्य-पाशुपाल्यादिकर्मभिः / . क्षपयत्यफलं जन्म धनाशाविह्वलो जनः . 268 // 53 // // 54 // // 55 // // 56 // // 57 // // 58 //