________________ // 35 // // 36 // // 37 // // 38 // // 39 // // 40 // त्रीन्द्रियत्वेऽपि सम्प्राप्ते षट्पदी-मत्कुणादयः / विमृद्यन्ते शरीरेण ताप्यन्ते चोष्णवारिणा . पिपीलिकास्तु तुद्यन्ते पादैः सम्मार्जनेन च / अदृश्यमानाः कुन्थ्वाद्या मथ्यन्ते चाऽऽसनादिभिः चतुरिन्द्रियताभाजः सरघा-भ्रमरादयः / मधुभविराध्यन्ते यष्टि-लोष्टादिताडनैः ताड्यन्ते तालवृन्ताद्यैर्द्राग् दंश-मशकादयः / ग्रस्यन्ते गृहगोधाद्यैर्मक्षिका-मर्कटादयः पञ्चेन्द्रिया जलचराः खाद्यन्तेऽन्योन्यमुत्सुकाः / धीवरैः परिगृह्यन्ते गिल्यन्ते च बकादिभिः उत्कील्यन्ते त्वचयद्भिः प्राप्यन्ते च भटिवताम् / भोक्तुकामैर्विपच्यन्ते निगाल्यन्ते वसाथिभिः स्थलचारिषु चोत्पत्रा अबला बलवत्तरैः / मृगाद्याः सिंहप्रमुखैार्यन्ते मांसकाङ्गिभिः मृगयासक्तचित्तैस्तु क्रीडया मांसकाम्यया / . नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः क्षुधा-पिपासा-शीतोष्णा-ऽतिभारारोपणादिना / कशा-ऽङ्कुश-प्रतोदैश्च वेदनां प्रसहन्त्यमी खेचरास्तित्तिर-शुक-कपोत-चटकादयः / ' श्येनं-सिञ्चान-गृध्राद्यैर्ग्रस्यन्ते मांसगृनुभिः मांसलुब्धैः शाकुनिकै नोपायप्रपञ्चतः / सगृह्य प्रतिहन्यन्ते नानारूपैविडम्बनैः जला-ग्नि-शस्त्रादिभवं तिस्थां सर्वतोभयम् / कियद् वा वर्ण्यते स्वस्वकर्मबन्धनिबन्धनम् ? 217 // 41 // // 42 // // 43 // // 44 // // 45 // // 46 //