________________ // 23 // - // 24 // // 25 // // 26 // // 27 // // 28 // केचिच्छाणैनिघृष्यन्ते विपच्य क्षारमृत्पुटैः। टङ्काण्डकैर्विदार्यन्ते पाट्यन्तेऽद्रिसरित्प्लवैः अप्कायतां पुनः प्राप्तास्ताप्यन्ते तपनांशुभिः / घनीक्रियन्ते तुहिनैः संशोष्यन्ते च पांसुभिः क्षारेतररसाश्लेषाद् विपद्यन्ते परस्परम् / स्थाल्यन्तस्था विपच्यन्ते पीयन्ते च पिपासितैः / / तेजस्कायत्वमाप्ताश्च विध्याप्यन्ते जलादिभिः / घनादिभिः प्रकुट्यन्ते ज्वाल्यन्ते चेन्धनादिभिः वायुकायत्वमप्यासा हन्यन्ते व्यजनादिभिः / शीतोष्णादिद्रव्ययोगाद् विपद्यन्ते क्षणे क्षणे प्राचीनाद्यास्तु सर्वेऽपि विराध्यन्ते परस्परम् / मुखादिवातैर्बाध्यन्ते पीयन्ते चोरगादिभिः वनस्पतित्वं दशधा प्राप्ताः कन्दादिभेदतः / छिद्यन्ते वाऽथ भिद्यन्ते पच्यन्ते वाऽग्नियोगतः . संशोष्यन्ते निपिष्यन्ते प्लुष्यन्तेऽन्योन्यघर्षणैः / क्षारादिभिश्च दह्यन्ते सन्धीयन्ते च भोक्तृभिः सर्वावस्थासु खाद्यन्ते भज्यन्ते च प्रभञ्जनैः / क्रियन्ते भस्मसाद् दावैरुन्मूल्यन्ते सरित्प्लवैः सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां गताः / सर्वैः शस्त्रैः सर्वदाऽनुभवन्ति क्लेशसन्ततिम् द्वीन्द्रियत्वे च ताप्यन्ते पीयन्ते पूतरादयः / चूर्ण्यन्ते कृमयः पादैर्भक्ष्यन्ते चटकादिभिः शङ्खादयो निखन्यन्ते निष्कृष्यन्ते जलौकसः / गण्डूपदाद्याः पात्यन्ते जठरादौषधादिभिः 266 // 29 // // 30 // // 31 // // 32 // / // 34 //