________________ // 12 // // 13 // // 14 // // 15 // // 16 // दारुदारं विदार्यन्ते दारुणैः क्रकचैः क्वचित् / तिलपेषं च पिष्यन्ते चित्रयन्त्रैः क्वचित् पुनः . पिपासातः पुनस्तप्तत्रपु-सीसकवाहिनीम् / नदी वैतरणी नामावतार्यन्ते वराककाः छायाभिकाङ्क्षिणः क्षिप्रमसिपत्रवनं गताः / पत्रशस्त्रैः पतद्भिस्ते छिद्यन्ते तिलशोऽसकृत् संश्लेष्यन्ते च शाल्मल्यो वज्रकण्टकसङ्कयः / तप्तायःपुत्रिकाः क्वापि स्मारितान्यवधूरतम् संस्मार्य मांसलोलत्वमाश्यन्ते मांसमङ्गजम् / प्रख्याप्य मधुलौल्यं च पाय्यन्ते तापितं त्रपु भ्राष्ट्र-कण्डू-महाशूल-कुम्भीपाकादिवेदनाः / अश्रान्तमनुभाव्यन्ते भृज्ज्यन्ते च भटित्रवत् ' छिन-भिन्नशरीराणां भूयो मिलितवर्मणाम् / नेत्राद्यङ्गानि कृष्यन्ते बक-कङ्कादिपक्षिभिः / एवं महादुःखहताः सुखांशेनापि वर्जिताः। . गमयन्ति बहु कालम् आ त्रयस्त्रिंशसागरम् तिर्यग्गतिमपि प्राप्ताः सम्प्राप्यैकेन्द्रियादिताम् / तत्रापि पृथिवीकायरूपतां समुपागताः हलादिशस्त्रैः पाट्यन्ते मृद्यन्तेऽश्व-गजादिभिः / वारिप्रवाहै: प्लाव्यन्ते दह्यन्ते च दवाग्निना . व्यथ्यन्ते लवणा-ऽचाम्ल-मूत्रादिसलिलैरपि / लवणक्षारतां प्राप्ताः क्वथ्यन्ते चोष्णवारिणा पच्यन्ते कुम्भकाराद्यैः कृत्वा कुम्भेष्टकादिसात् / चीयन्ते भित्तिमध्ये च नीत्वा कर्दमरूपताम् રકપ // 17 // // 18 // // 19 // // 20 // // 21 // // 22 //