________________ * // 4 // तत् सांसारिकसम्बन्धं विहायैकाकिना सता। यतितव्यं हि मोक्षाय शाश्वतानन्दशर्मणे जाभवानन्दशर्मणे // 14 // ॥षष्ठश्रीपद्मप्रभजिनदेशना - चतुर्गतिस्वरूपम् // पारावार इवापारः संसारो घोर एष भोः ! / प्राणिनश्चतुरशीतियोनिलक्षेषु पातयन् / श्रोत्रियः श्वपचः स्वामी पत्तिर्ब्रह्मा कृमिश्च सः / संसारनाट्ये नटवत् संसारी हन्त ! चेष्टते . // 2 // न याति कतमां योनि ? कतमा वा न मुञ्चति ? / संसारी कर्मसम्बन्धादवक्रयकुटीमिव // 3 // समस्तलोकाकाशेऽपि नानारूपैः स्वकर्मतः / वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः संसारिणश्चतुर्भेदाः श्वधि-तिर्यङ्-नरा-ऽमराः / प्रायेण दुःखबहुलाः कर्मसम्बन्धबाधिताः .. आद्येषु त्रिषु नरकेषूष्णं शीतं परेषु च / चतुर्थे शीतमुष्णं च दुःखं क्षेत्रोद्भवं त्विदम् नरकेषूष्णशीतेषु चेत् पतेल्लोहपर्वतः / विलीयेत विशीर्येत तदा भुवमनाप्नुवन् / // 7 // उदीरितमहादुःखा अन्योऽन्येनासुरैश्च ते / इति त्रिविधदुःखार्ता वसन्ति नरकावनौ समुत्पन्ना घटीयन्त्रेष्वधार्मिकसुरैर्बलात् / आकृष्यन्ते लघुद्वारा यथा सीसशलाकिका // 9 // गृहीत्वा पाणि-पादादौ वज्रकण्टकसङ्कटें / आस्फाल्यन्ते शिलापृष्ठे वासांसि रजकैरिव . // 10 // // 8 //