________________ // 2 // // 3 // // 4 // // 5 // // 7 // पुत्र-मित्र-कलत्रादेः शरीरस्यापि सत्क्रिया / परकार्यमिदं सर्वं न स्वकार्यं मनागपि एक उत्पद्यते जन्तुरेक एव विपद्यते / कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे अन्यैस्तेनाजितं वित्तं भूयः सम्भूय भुज्यते / स त्वेको नरककोडे क्लिश्यते निजकर्मभिः दुःखदावाग्निभीष्मेऽस्मिन् वितते भवकानने / बम्भ्रमीत्येक एवासौ जन्तुः कर्मवशीकृतः इह जीवस्य मा भूवन् सहाया बान्धवादयः / शरीरं तु सहायश्चेत् सुख-दुःखानुभूतिदम् नाऽऽयाति पूर्वभवतो न याति च भवान्तरम् / ततः कायः सहायः स्यात् सम्फेटमिलितः कथम् ? धर्मा-ऽधर्मो समासन्नौ सहायाविति चेन्मतिः / नैषा सत्या न मोक्षेऽस्ति धर्मा-ऽधर्मसहायता तस्मादेको बम्भ्रमीति भवे कुर्वन् शुभा-ऽशुभे / जन्तुर्वेदयते चैतदनुरूपे शुभा-ऽशुभे एक एव समादत्ते मोक्षश्रियमनुत्तराम् / सर्वसम्बन्धिविरहाद् द्वितीयस्य न सम्भवः यद् दुःखं भवसम्बन्धि यत् सुखं मोक्षसम्भवम् / एक एवोपभुङ्क्ते तन सहायोऽस्ति कश्चन यथा चैकस्तरन् सिन्धुं पारं व्रजति तत्क्षणात् / न तु हृत्पाणि-पादादिसंयोजितपरिग्रहः तथैव धन-देहादिपरिग्रहपराङ्मुखः / स्वस्थ एको भवाम्भोधेः पारमासादयत्यसौ 263 // 8 // // 9 // // 10 // // 11 // // 12 // // 13 //