________________ // 4 // // 6 // // 7 // // 8 // शोचन्ति स्वजनानन्तं नीयमानान् स्वकर्मभिः / नेष्यमाणं तु शोचन्ति नाऽऽत्मानं मूढबुद्धयः संसारे दुःखदावाग्निज्वलज्ज्वालाकरालिते / वने मृगार्भकस्येव शरणं नास्ति देहिनः अष्टाङ्गेनाऽऽयुर्वेदेन जीवातुभिरथाऽगदैः / मृत्युञ्जयादिभिर्मन्त्रस्त्राणं नैकऽस्ति मृत्युतः खड्गपञ्जरमध्यस्थश्चतुरङ्गचमूवृतः / रङ्कवत् कृष्यते राजा हठेन यमकिङ्करैः यथा मृत्युप्रतीकारं पशवो नैव जानते / विपश्चितोऽपि हि तथा धिक् प्रतीकारमूढताम् येऽसिमात्रोपकरणाः कुर्वते मामकण्टकाम् / यमभ्रूभङ्गभीतास्तेऽप्यास्ये निदधतेऽङ्गली: मुनीनामप्यपापानामसिधारोपमैर्वतैः / न शक्यते कृतान्तस्य प्रतिकर्तुं कदाचन अशरण्यमहो ! विश्वमराजकमनायकम् / यदेतदप्रतीकारं ग्रस्यते यमरक्षसा योऽपि धर्मप्रतीकारो न सोऽपि मरणं प्रति / शुभां गतिं ददानस्तु प्रतिकर्तेति कीर्त्यते प्रव्रज्यालक्षणोपायमादायाक्षय्यशर्मणे / चतुर्थपुरुषार्थाय यतितव्यमहो ! ततः . // 9 // // 10 // . // 11 // // 12 // // 13 // पञ्चमश्रीसुमतिजिनदेशना - एकत्वनिरूपिका कृत्याकृत्यपरिज्ञानयोग्यतामभ्युपेयुषा / इह स्वकार्यमूढेन न स्थातव्यं शरीरिणा - // 1 //