________________ नोत्पद्यन्ते न म्रियन्ते, मास्तत्परतः क्वचित् / न म्रियन्ते चारणाद्या, अपि तत्परतो गताः // 223 // मानुषोत्तरनामा च, तेनाऽयं परतोऽस्य च / बादराग्नि-मेघ-विद्युन्नदी-कालादयो न हि // 224 // पञ्चविंशति वर्षेषु, चैष्वर्वाग् मानुषोत्तरात् / मनुष्याः सान्तद्धीपेषूत्पद्यन्ते हि जन्मतः // 225 // संहार-विद्य-द्धियोगान्मेर्वादिशिखरेषु च / द्वीपेष्वर्धतृतीयेषु, समुद्रद्वितये च ते // 226 // ते च भारतका जम्बूद्वीप्या लावणका अपि / इत्येवमादयः क्षेत्र-द्वीपा-ऽम्भोधिविभागतः // 227 // द्विधाऽऽर्य-म्लेच्छभेदात् ते, तत्राऽऽाः षड्विधा इह / . क्षेत्र-जाति-कुल-कर्म-शिल्प-भाषाविभेदतः // 228 // क्षेत्रायः पञ्चदशसु, जायन्ते कर्मभूमिषु / तत्रेह भारते सार्धपञ्चविंशतिदेशजाः // 229 // ते चाऽऽर्यदेशा नगरैरुपलक्ष्या इमे यथा / राजगृहेण मगधा, अङ्गदेशस्तु चम्पया // 230 // वङ्गाः पुनस्ताम्रलिप्त्या, वाराणस्या च काशयः / काञ्चनपुर्या कलिङ्गाः, साकेतेन च कोसलाः . // 231 // कुरवो गजपुरेण, शौर्येण च कुशार्तकाः / . काम्पील्येन च पञ्चाला, अहिच्छत्रेण जाङ्गलाः // 232 // विदेहास्तु मिथिलया, द्वारवत्या सुराष्ट्रकाः / वत्साश्च कौशाम्बीपुर्या, मलया भद्रिलेन तु // 233 // नान्दीपुरेण सन्दर्भा, वरुणाः पुनरच्छया / . वैराटेन पुनर्मत्स्याः , शुक्तिमत्या च चेदयः // 234 // ૨૪છે.