________________ दशार्णा मृत्तिकावत्या वीतभयेन सिन्धवः / सौवीरास्तु मथुरया, सूरसेनास्तु पापया . // 235 // भङ्गया मासपुरीवर्ताः, श्रावस्त्या चं कुणालकाः / . . कोटीवर्षेण लाटाश्च, श्वेतव्या केतकार्धकम् // 236 // आर्यदेशा अमी एभिनगरैरुपलक्षिताः / तीर्थकृच्चक्रभृत्कृष्ण-बलानां जन्म येषु हि // 237 / / इक्ष्वाकवो ज्ञात-हरि-विदेहाः कुरवोऽपि च / / उग्रा भोजा राजन्याश्च, जात्यार्या एवमादयः // 238 // कुलार्यास्तु कुलकराश्चक्रिणो विष्णवो बलाः। . तृतीयात् पञ्चमात् सप्तमाद् वा ये शुद्धवंशजाः // 239 // 'यजनैर्याजनैः शास्त्राध्ययना-ऽध्यापनैरपि / प्रयोगैर्तिया वृत्तिमन्तः कार्यकाः स्मृताः // 240 // शिल्पार्याः स्वल्पसावद्यवृत्तयस्तन्तुवायकाः / तुन्नवायाः कुलालाच, नापिता देवलादयः // 241 // भाषा नाम ते शिष्टभाषानियतवर्णकम् / पञ्चानामपि चाऽऽर्याणां, व्यवहारं वदन्ति ये // 242 // म्लेच्छास्तु शाका यवनाः, शबरा बर्बरा अपि / काया मुरुण्डा उड्राश्च, गोड्राः पक्कणका अपि // 243 // अरपाकाश्च हूणाश्च, रोमकाः पारसा अपि / खसाश्च खासिका डौम्बिलिकाश्च लकुसा अपि // 244 / / भिल्ला अन्ध्रा बुक्कसाश्च, पुलिन्दाः क्रौञ्चका अपि / . भ्रमररुताः कुञ्चाश्च, चीन-चञ्चक-मालवाः // 245 // द्रविडाश्च कुलशाश्च, किराता: कैकया अपिं। .. हयमुखा गजमुखास्तुरगा-ऽजमुखा अपि // 246 // 248