________________ // 212 // // 213 // // 214 // // 215 // // 216 // चत्वारो मेरवः क्षुद्रा, धातकी-पुष्करार्धयोः / योजनानां पञ्चदशसहस्रया मेरुतोऽणवः मेरोर्योजनषट्शत्या, हीनविष्कम्भकाः क्षितौ / तेषां च प्रथमं काण्डं, महामेरोरनूनकम् द्वितीयं सप्तभिन्यूनं, योजनानां सहस्रकैः / तृतीयमष्टभिर्मेरुवद् भद्रशाल-नन्दने सहार्धपञ्चपञ्चाशसहस्रयोजनोपरि। पञ्चयोजनशत्या च, पृथु सौमनसं वनम् अष्टाविंशतिसहस्त्या, योजनानामथोपरि। . षडूनयोजनपञ्चशतविस्तारि पाण्डुकम् उपरिष्टादधस्ताच्च, विष्कम्भोऽथाऽवगाहनम् / महामेरुगिरेस्तुल्यं, तत्तुल्या चूलिकाऽपि च तदेवं मानुषं क्षेत्रं, द्वीपावर्धतृतीयको / द्वावधी पञ्चत्रिंशच्च, वर्षाः पञ्च च मेरवः त्रिंशद् वर्षधरा देवकुरवः पञ्च पञ्च च।। उत्तराः कुरवः षष्ट्युत्तरं च विजयाः शतम् ततः परं पर्वतोऽस्ति, नामतो मानुषोत्तरः / मर्त्यलोकपरिक्षेपी, पुरप्राकारवर्तुलः निविष्टः पुष्करस्याऽर्धे सौवर्णः सैकविंशतिम् / योजनानां सप्तदशशतीं यावत् समुच्छ्रितः चतुःशती योजनानां, त्रिंशां कोशं च भूमिगः / योजनानां सहस्रं द्वाविंशं विस्तीर्णवानधः योजनानां सप्तशतीं, त्रयोविंशां च मध्यतः / उपरिष्टाच्चतुर्विंशां, योजनानां चतुःशतीम् 246 // 217 // // 218 // // 219 // // 220 // // 221 // // 222 //