________________ // 199 // // 200 // // 201 // // 202 // // 203 // // 204 // कर्कोटकः कार्दमकः, कैलाशश्चाऽरुणप्रभः / सर्वरत्नमयाश्चाणुवेलाधारीन्द्रपर्वताः कर्कोटको विद्युज्जिह्वः, कैलाशोथाऽरुणप्रभः / वसन्ति देवतास्तेषु, सर्वदैव यथाक्रमम् सहस्रेषु द्वादशसु, योजनानां विदिक्षु च / प्राच्यामिन्दुद्वीपौ तावद्विस्तारा-ऽऽयामशोभितौ विद्येते सवितृद्वीपावपरेण च तावति / तथाऽस्ति गौतमद्वीपस्तावति सुस्थिताश्रयः अन्तर्बाह्यलावणकचन्द्रा-ऽर्काणां तथाऽऽश्रयाः / प्रासादास्तेषु लवणरसस्तु लवणोदधिः लवणोदपरिक्षेपी, ततो द्विगुणविस्तृतिः / धातकीखण्ड इत्यस्ति, नाम्ना द्वीपो द्वितीयक: जम्बूद्वीपे च ये मेरु-वर्ष-वर्षधराद्रयः / धातक्यां द्विगुणास्ते तु, ख्यातास्सैरेव नामभिः . इष्वाकारपर्वताभ्यां, दीर्घाभ्यामुदग्याम्ययोः / विभक्ता जम्बूद्वीपस्थसङ्ख्या: पूर्वापरार्धयोः चक्राराभा निषधोच्चाः, कालोद-लवणस्पृशः / वर्षधराः सेष्वाकारा, वर्षास्त्वरान्तरस्थिताः धातकीखण्डद्वीपस्य, परिक्षेपी पयोनिधिः / . कालोदाख्यो योजनानामष्टौ लक्षाणि विस्तृतः धातक्यां सेष्वाकाराणां, मेर्वादीनामभाषि यः / सङ्ख्याविषयनियमः, पुष्करार्धे स एव हि धातकीखण्डक्षेत्रादिविभागाद् द्विगुणः पुनः / क्षेत्रादिकविभागोऽत्र, पुष्करार्धे प्रकीर्तितः // 205 / / // 206 // // 207 // // 208 // // 209 // // 210 // 245